________________ सम्यक्त्वसामायिकम्] [129 नाम . व्याख्या गाथा 2/2 1/17 9/0 = या देवे देवताबुद्धिगुरौ च गुरुतामतिः / धर्मे च धर्मधी: शुद्धा सम्यक्त्वमिदमुच्यते // 2 // यो.शा. = वसन्त्यस्मिन्नणुव्रतादयो गुणाः इति / श्रा. = सकलकर्तव्येषु परमपदसम्पदुपादानकारणं संसारपारावारतारणम् / स.स. = सम्मत्तं पुण इथ्थं सुत्तणुसारेण जा पवित्ती उ, * सूत्रानुसारेणैव सर्वज्ञागमानुसरणेनैव या चैत्यवन्दनादिरूपा प्रवृत्तिश्चेष्टा सम्यक्त्वम् / उ.प. सम्यक्त्वसामायिकम्. = औपशमिकादिसम्यक्त्वाप्तिः / सम्यग्ज्ञानम् = यथावस्थिततत्त्वानां संक्षेपाद् विस्तरेण वा / (सज्ज्ञानम् ) योऽवबोधस्तमत्राहुः गुरोरधिगमेन वा // 17 // यो.शा. __ = लक्ष्यलक्षणव्यवहाराव्यभिचारात्मकं मत्यादिः / त.उ. = सण्णाणं वत्थुगओ बोहो / यो.श. = सत्-शोभनं यथावत्पदार्थपरिच्छेदितया तच्च तज्ज्ञानं च बोधः सज्ज्ञानम्, * सतां वा सद्भूतानामर्थानां ज्ञानं सज्ज्ञानम् / अ. सम्यग्दर्शनबीजः = जिनशासनपक्षपातरूपशुभाध्यवसायलक्षणः / पं. सम्यग्दर्शनम् = अनन्तानुबन्ध्यादिक्षयाद्युत्था रुचिः / त.उ. = तत्त्वानां स्याद्वादमनतिक्रमस्य स्थितानाम्, अर्थानां श्रद्धानम्, इदमित्थमेव इति रुचिलक्षणम् / त.उ. = दंसणमिह सम्मत्तं, तं पुण तत्तत्थसद्दहणरूवं / खइयं खओवसमियं, तहोवसमियं च नायव्वं // 2 // स.स. = प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तद् / ध.. = प्रशमादिलिङ्ग आत्मपरिणामः / यो.दृ. = प्रशस्तं दर्शनं सम्यग्दर्शनं, * तत्त्वार्थश्रद्धानं सम्यग्दर्शनं, * सङ्गतं वा दर्शनं सम्यग्दर्शनम, प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् / त.भा. 1/2 9/23 1/1 // // // * * * 1/2