________________ 110] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा 17 विषयः = ज्ञानगम्यः पदार्थः / त.उ. विषयप्रतिभासज्ञानम् = विषयकण्टकरत्नादौ बालादिप्रतिभासवत् / . विषयप्रतिभासं स्यात्, तद्धेयत्वाद्यवेदकम् // 2 // अ. = विषयप्रतिभास इत्याख्या यस्य, विषयस्यैव हेयत्वादिधर्मानुपरक्तस्य प्रतिभासो यत्र तत् / द्वा. विषयानुरागः शब्दादिविषयानुषङ्गः / अ.म. विषयाभ्यासः = मोक्षमार्गस्वामिन्यर्हदादौ पूजादिकरणाभ्यासो विषयाभ्यासः / उ.र. = विषयेऽर्हलक्षणे मोक्षमार्गस्वामिनि योऽभ्यासः पूजादिकरणस्य सः / उ.प. = विषयेऽहल्लक्षणे मोक्षमार्गस्वामिनि वा विनयादिवृत्तिः सः / ध.प. विषादः = दैन्यम् / अ. 10/3 विषानुष्ठानम् = आहारोपधिपूजद्धिप्रभृत्याशंसया कृतम् / शीघ्रं सच्चित्तहन्तृत्वाद्विषानुष्ठानमुच्यते // 3 // अध्या. 10/3 लब्ध्याद्यपेक्षातः क्षणात्सच्चित्तमारणात् यद् . अनुष्ठानम् तद् / द्वा. 13/12 विसंवादनम् = सत्यवदभ्युपगमे तदपह्नवोपाये व्युत्थापनम् / त.भा. 6/21 विहारः = मासकल्पादिः / गु. 3/137 वीतरागः = क्षीणमोहादिगुणस्थानवर्ती मुनिः / उ.र. 114 वीतोऽपेतो रागो येषां ते / पञ्च. = महावीरनामधेयः / त.उ. का. 1/22 = विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरः / ध्या. 1 = विशेषेण ईरयति क्षिपति कर्माणीति वीरः, विदारयति यत् कर्म तपसा च विराजते / तपोवीर्येण युक्तश्च तस्माद् वीर __इति स्मृतः // इति लक्षणाद् निरुक्ताद्वा वीरः / यो.शा. = वीर्यान्तरायकर्मक्षयक्षयोपशमप्रभवेणात्मशक्तिविशेषः / ल.वि. 284 = आन्तरशक्तिविशेषः अथवा उत्साहः / सा. 11 = उत्साहः / त.उ. का. 1/13 = कर्मशत्रुविजयानुकूलः पराक्रमः / द्वा. वीरः वीर्यः 98