________________ 470 2-3-2 (510) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन उत्तरक्षत्रियकुण्डपुरसंनिवेशे ज्ञातानां क्षत्रियाणां सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य त्रिशलायाः क्षत्रियाण्याः वाशिष्ठगोत्रायाः अशुभानां पुद्गलानां अपहारं कृत्वा शुभानां पुद्गलानां प्रक्षेपं कृत्वा कुक्षौ गर्भ: समाहरति, यः अपि च तस्याः त्रिशलाया: क्षत्रियाण्याः कुक्षौ गर्भः, तं अपि च दक्षिण ब्राह्मणकुण्डपुरसंनिवेशे ऋषभदत्तस्य कोडालगोत्रस्य देवानन्दायाः ब्राह्मण्या: जालन्धरगोत्रायाः कुक्षौ गर्भ समाहरति (मुञ्चति)। श्रमणः भगवान् महावीरः त्रिज्ञानोपगतः च अपि अभवत्, समाहरिष्ये इति जानाति, समाह्रियमाणः न जानाति, समाहृतः अस्मि इति च जानाति श्रमणायुष्मान् / तस्मिन् काले तस्मिन् समये त्रिशलायाः क्षत्रियाण्याः अथ अन्यदा कदाचित् नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टमरात्रिंदिवसेषु व्यतिक्रान्तेषु सत्सु, यः सः ग्रीष्मस्य प्रथमः मासः, द्वितीय: पक्षः, चैत्रशुद्धः, तस्य चैत्रशुक्लस्य त्रयोदशी-पक्षेण हस्तोत्तराभिः नक्षत्रेण योगमुपागतेन श्रमणं भगवन्तं महावीरं आरोग्या (त्रिशला क्षत्रियाणी) अरोगं प्रसूता। यस्यां रात्रौ त्रिशला क्षत्रियाणी श्रमणं भगवन्तं महावीरं अरोगा (त्रिशला) अरोगं पुत्रं प्रसूता, तस्यां रात्रौ भवनपतिवानव्यन्तरज्योतिष्क-(वैमानिक) विमानवासिदेवैः देवीभिश्च अवपतद्भिः देवसन्निपात: देवकहकहकः उत्पिजलकभूतश्च अपि अभवत् / यस्यां रात्रौ (रजन्यां) त्रिथला क्षत्रियाणी श्रमणं भगवन्तं महावीरं प्रसूता, तस्यां रजन्यां बहवः देवाः च देव्यश्च एकं महत् अमृतवर्षं च गन्धवर्षं च, चूर्णवर्षं च, पुष्पवर्ष च, हिरण्यवर्षं च रत्नवर्षं च अवर्षयन् / यस्यां रजन्यां त्रिशला क्षत्रियाणी श्रमणं भगवन्तं महावीरं प्रसूता तस्यां रजन्यां भवनपति-वानव्यन्तर-ज्योतिष्क-विमानवासिनः देवाश्च देव्यश्च श्रमणस्य भगवतः महावीरस्य सूतिकर्माणि तीर्थकराभिषेकं च अकार्षुः / यतः प्रभृति भगवान् महावीर: त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भ-स्वरूपेण आगतः, ततः प्रभृति तत् कुलं विपुलेन हिरण्येन सुवर्णेन धनेन धान्येन माणिक्येन मौक्तिकेन शंखशिला-प्रवालेन अतीव अतीव परिवर्धते। ततः श्रमणस्य भगवतः महावीरस्य अम्बा-पितरौ एतदर्थं ज्ञात्वा निवृत्तदशाहे व्युत्क्रान्ते शुचीभूते सति विपुलं अशन-पान-खादिम-स्वादिमं उपस्कारयन्ति, उपस्कार्य मित्र ज्ञाति स्वजन सम्बन्धिवर्ग उपनिमन्त्रयन्ति, मित्रज्ञातिस्वजनसम्बन्धिवर्ग उपनिमन्य बहून् श्रमण-ब्राह्मण-कृपण-वनीपकान् भिक्षोण्डुक-पण्डरकादीन् विच्छर्दयन्ति विगोपयन्ति विश्राणयन्ति, दातृषु दानं परिभाजयन्ति, विच्छर्य वियोप्य विश्राण्य दातृषु परिभाज्य मित्रज्ञातिस्वजनसम्बन्धिवर्ग भोजयन्ति, मित्रज्ञाति० वर्ग