________________ 370 2-1-6-1-1 (486) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन II संस्कृत-छाया : स: भिक्षुः वा अभिकाङक्षेत पात्रं एषितुम्, सः यत् पुनः पात्रं जानीयात्, तद्यथाअलाबुपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा तथाप्रकारं पात्रं यः निर्ग्रन्थः तरुण: यावत् स्थिरसङ्घयणः सः एकं पात्रं धारयेत् न द्वितीयं / सः भिक्षुः० परं अर्धयोजनमर्यादायां पात्रप्रतिज्ञया न अभिसन्धारयेत् गमनाय / सः भिक्षुः० स: यत् एष्यत्-प्रतिज्ञया एकं साधर्मिकं समुद्दिश्य प्राणिनः वा यथा पिण्डैषणायां चत्वारः आलापकाः, पञ्चमे बहवः श्रमण प्रगण्य तथैव / सः भिक्षुः वा० असंयतः भिक्षुप्रतिज्ञया बहवः श्रमण-ब्राह्मण ववैषणालापकः / सः भिक्षुः वा० स: यानि पुनः पात्राणि जानीयात् विरूपरूपाणि महद्धनमूल्यानि तद्यथा- अयःपात्राणि वा अपुःपात्राणि वा ताम्र-पात्राणि वा सीसकपात्राणि वा हिरण्यपात्राणि वा सुवर्णपात्राणि वा रीरिकपात्राणि वा हारपुटपात्राणि वा मणिकाचकांस्यपात्राणि वा शलशृङ्गपात्राणि वा दन्तपात्राणि वा चेलपात्राणि वा शैलपात्राणि वा चर्मपात्राणि वा अन्यतराणि वा तथाप्रकाराणि विरूपरूपाणि महद्धनमूल्यानि पात्राणि अप्रासुकानि न० / सः भिक्षुः० स: यानि पुनः पात्राणि विरूपरूपाणि महद्धनमूल्यानि, तद्यथा- आयोबन्धनानि वा यावत् चर्मबन्धनानि वा अन्यतराणि तथाप्रकाराणि महद्धनबन्धनानि अप्रासुकानि न प्रतिगृह्णीयात् / इत्येतानि आयतनानि उपातिक्रम्य अथ भिक्षुः जानीयात् चतसृभिः प्रतिमाभिः पात्रं एषितुम्, तत्र खलु इयं प्रथमा प्रतिमा। स: भिक्षुः० उद्दिश्य पात्रं याचेत, तद्यथा- अलाबुपात्रं वा तथाप्रकारं पात्रं स्वयं वा याचेत यावत् प्रतिगृह्णीयात्० प्रथमा प्रतिमा / - अथाऽपरा० स:० प्रेक्ष्य पात्रं याचेत, तद्यथागृहपतिं वा कर्मकरी वा, स: पूर्वमेव आलोकयेत्, आयुष्यमति ! भगिनि ! दास्यसि मह्यं इत: अन्यतरत् पात्रं ? तद्यथाअलाबुपात्रं वा तथाप्रकारं पात्रं स्वयं वा यावत् प्रति० द्वितीया प्रतिमा / अथाऽपरा० स: भिक्षुः० सः यत् पुनः पात्रं जानीयात्- स्वाङ्गिकं वा वैजयन्तिकं वा तथाप्रकारं पात्रं स्वयं वा यावत् प्रतिगृह्णीयात्०, तृतीया प्रतिमा / अथाऽपरा चतुर्थी प्रतिमा- स: भिक्षुः० उज्झितधर्मिकं याचेत, यावत् अन्ये बहवः श्रमणाः यावत् न आकाङ्क्षन्ते, तथा० याचेत, यावत् प्रतिगृह्णीयात्० चतुर्थी प्रतिमा / इत्येतासां चतसृणां प्रतिमानां अन्यतरां प्रतिमां यथा पिण्डैषणायाम् / सः एतया