SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विनेय शिष्यरत्नज्योतिषाचार्य-श्रीमद् जयप्रभविजयैः गुरुबन्धुश्री सौभाग्यविजयादीनां सत्प्रेरणया तथा च विनेय शिष्यरत्न हितेशचन्द्रविजयदिव्यचन्द्रविजयादीनां नमनिवेदनेन... ग्रन्थसम्पादनकर्म तु प्रचुरश्रमसाध्यं अस्ति, अतः आचाराङ्गाभिधस्याऽस्य ग्रन्थस्य सम्पादनकर्मणि मालवकेशरी व्याख्यानकार मुनिपुंगव श्री हितेशचन्द्रविजयजित् “श्रेयस'' तथा मुनिराज श्री दिव्यचन्द्रविजयजित् "सुमन'' इत्यादिभिः एभिः मुनिवर्यैः आत्मीयभावेन प्रचुरमात्रायां सहयोगः प्रदत्तः अस्ति, अतः तेषां श्रुतज्ञानभक्तिः अनुमोदनीया अस्ति... राजेन्द्र सुबोधनी “आहोरी' हिन्दी टीकाऽन्वितस्य अस्य आचाराङ्गयन्थस्य प्रभूततराणि पत्राणि सञ्जातानि, अतः प्रथमश्रुतस्कन्धस्य प्रथमाध्ययन स्वरूपः प्रथमः विभागः प्रकाशितः अस्ति, ततः परं द्वितीय-तृतीय-चतुर्थ-पञ्चमाध्ययनानां यानि पत्राणि सन्ति तेषां सङ्ग्रहः द्वितीय-भागे पुस्तके कृतः, अस्ति... - प्रथम-श्रुतस्कन्धस्य शेषाणि 6,(7),8,9 अध्ययनानि प्रस्तुतेऽस्मिन् तृतीयभागे .. तत्रभवतां भवतां करकमले प्रस्तुतीकृत्य हर्षानन्दः अनुभूयते तथा च द्वितीयश्रुतस्कन्धात्मकः चतुर्थभागः भविष्यति... एवं सम्पूर्णः आचाराश-ग्रन्थः अस्माभिः पुस्तकचतुष्टये सम्पादितोऽस्ति। ग्रन्थमुद्रणविधौ तु अणहिलपुर-पाटण-नगरस्थ दीप ओफसेट स्वामी श्री हितेशभाइ परीख एवं मून कम्प्युटर स्वामी श्री मनोजभाइ ठक्कर इत्यादि सज्जनानां सहयोगः अविस्मरणीयः अस्ति। ग्रन्थसम्पादनकर्मणि प्रेसमेटर एवं प्रुफ आदि संशोधनकर्मणि विदुषी साधनादेवी, निमेष-ऋषभ-अभयम् इत्यादि सर्वेषां असाधारणसहयोगः प्रशंसनीयः अस्ति / अन्येऽपि ये केऽपि सज्जनाः अस्मिन् ग्रन्थसम्पादनकर्मणि उपकृतवन्तः तेषां समेषां सहकारं कृतज्ञभावेन स्मरामि इति... ___-: निवेदयति : लीलाधरात्मज रमेशचंद्र हरिया... संस्कृत-प्राकृत व्याकरण काव्य न्याय साहित्याचार्य. __-: अध्यापक :वि.सं.२०६१ गुरु-सप्तमी गुरू राजेन्द्र विद्या शोध संस्थान दिनांक : 16-1-2005 मोहनखेड़ा तीर्थ (राजगढ़) मोहनखेडा तीर्थ (म.प्र.) जि. धार, मध्यप्रदेश फोन : 07296-232225
SR No.004437
Book TitleAcharang Sutram Part 03
Original Sutra AuthorN/A
AuthorJayprabhvijay, Rameshchandra L Haria
PublisherRajendra Yatindra Jainagam Hindi Prakashan
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy