SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अतः एव परमकरुणालुभिः जगज्जन्तुजननीकल्पैः जिनेश्वरैः परमवात्सल्यभावेन सकलजीवेभ्यः निराबाधात्मसुखानुभवं प्रकटयितुं पञ्चाचारमयः मोक्षमागः प्रदर्शितः अस्ति... गणधरैश्च अयं पञ्चाचारः आचाराङ्गाभिधे आगमयन्थे उल्लिखितः अस्ति. ल कालादिभेदभिन्नाष्टविधज्ञानाचार : निःशङ्कितादिभेदभिन्नाष्टविधदर्शनाचारः ईसिमित्यादिभेदभिन्नाष्टविधचारित्राचारः अनशनादिभेदभिन्नद्वादशविधतपआचारः 5. यथाविधित्रियोगपराक्रमभेदभिन्नवीर्याचारः ज्ञान-दर्शन-चारित्र-तपो-वीर्याचारात्मकः अयं पञ्चाचारः सर्वेषां जीवानां आत्मविशुद्धयर्थं असाधारणं हेतुः अस्ति... यतः तदेव साधनं साधनं स्यात्, यत् साध्यं अवश्यमेव साधयति... अद्ययावत् ये केऽपि जीवाः मोक्ष प्राप्ताः सन्ति, ते सर्वेऽपि पञ्चाचारेणैव, नाऽन्यथा... यैः यैः पञ्चाचारः आराधितः ते सर्वेऽपि मोक्षगतिं प्राप्ताः सन्ति, तथा यैः जीवैः अयं पञ्चाचारः न आदृतः, आदृतो वा न आराधितः, ते सर्वे जीवाः चातुर्गतिकेऽस्मिन् संसारे परिभ्रमन्ति... यत्र यत्र साधनं तत्र तत्र साध्यम् इति अन्वयः। यत्र यत्र साध्याभावः तत्र तत्र साधनाभावः इति व्यतिरेकः / अर्थात् यत्र यत्र पञ्चाचारः तत्र तत्र मोक्षः / इति अन्वयः तथा यत्र यत्र मोक्षाभावः तत्र तत्र पञ्चाचाराभावः। इति व्यतिरेकः अतः एव सज्जनशिरोमणिभिः सुधर्मस्वाम्यादि-सूरिपुरन्दरैः पुनः पुनः निवेद्यते, यत् - हे भव्याः ! सावधानीभूय सेव्यतामयं पञ्चाचारः, अनुभूयतां च निराबाधात्मसुखम् / आचाराङ्गाभिधमिदं आगमशास्त्रं गणधरैः अर्धमागधीप्राकृतभाषायां निबद्धमस्ति... चतुर्दशपूर्वधर श्रीभद्रबाहुस्वामिभिः प्राकृतभाषायां नियुक्तिः निबद्धा अस्ति... तथा वृत्तिकारश्रीमत् शीलाङ्काचार्यैः संस्कृतभाषायां वृत्ति-व्याख्या विहिता अस्ति... किन्तु वर्तमानकालीनमन्दमतिमुमुक्षुभिः इदं आचाराङ्गसूत्रम्, इयं नियुक्तिः, वृत्ति-व्याख्या च दुरधिगम्या, अतः एतादृशी परिस्थितिः सञ्जाताः यत् प्रभूततराः साधवः साध्व्यश्च विहितयोगविधयः अपि, आचाराङ्गसूत्रार्थस्य जिज्ञासवः अपि न श्रवणं लभन्ते, न च पठितुं शक्नुवन्ति, ततः यत् तत् किमपि पठनं श्रवणं च कुर्वन्तः सन्तः आर्तध्यानात्मात-चेतसध्य ते दुर्लभं नरजन्मक्षणं मुधा गमयन्ति, ___ अतः एवम्भूतानां मन्दमतीनां मुमुक्षूणां हितकाम्यया इयं राजेन्द्र सुबोधनी "आहोरी" हिन्दी टीका-व्याख्या विहिता, अभिधान-राजेन्द्र-कोषकार-श्रीमद्-विजय राजेन्द्रसूरीश्वराणामन्तेवासि शिष्यरत्न व्याख्यानवाचस्पति विद्वद्वरेण्य श्रीमद् यतीन्द्रसूरीश्वराणां
SR No.004436
Book TitleAcharang Sutram Part 02
Original Sutra AuthorN/A
AuthorJayprabhvijay, Rameshchandra L Haria
PublisherRajendra Yatindra Jainagam Hindi Prakashan
Publication Year
Total Pages528
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy