________________ अयं पश्चाचारः आचारागाभिधे आगमग्रन्थे उल्लिखितः अस्ति. 3. __ कालादिभेदभिन्नाष्टविधज्ञानाचार : निःशइकादिभेदभिन्नाष्टविधदर्शनाचारः ईर्यासमित्यादिभेदभिन्नाष्टविधचारित्राचारः अनशनादिभेदभिन्नद्वादशविधतपआचारः यथाविधित्रियोगपराक्रमभेदभिन्नवीर्याचारः 5. ज्ञान-दर्शन-चारित्र-तपो-वीर्याचारात्मकः अयं पञ्चाचारः सर्वेषां जीवानां आत्मविशुद्धयर्थं . असाधारंणं साधनं अस्ति... यतः तदेव साधनं साधनं स्यात्, यत् साध्यं अवश्यमेव साधयति... अद्य-पर्यन्तं ये केऽपि जीवाः मोक्ष प्राप्ताः सन्ति ते सर्वेऽपि पञ्चाचारेणैव, नाऽन्यथा... यैः यैः पञ्चाचारः आराधितः ते सर्वेऽपि मोक्षगतिं प्राप्ताः सन्ति, तथा यैः जीवैः अयं पञ्चाचारः, न आदृतः आवृतो वा न आराधितः ते सर्वे जीवाः अद्याऽपि चातुर्गतिकेऽस्मिन् संसारे परिभ्रमन्ति... . यत्र यत्र साधनं तत्र तत्र साध्यम् इति अन्वयः। यत्र यत्र साधनाभावः तत्र तत्र साध्याभावः इति व्यतिरेकः / अर्थात् यत्र यत्र पञ्चाचारः तत्र तत्र मोक्षः / इति अन्वयः तथा यत्र यत्र पञ्चाचाराभावः तत्र तत्र मोक्षाभावः। इति व्यतिरेकः __ अतः एव सज्जनशिरोमणिभिः सुधर्मस्वाम्यादि-सूरिपुरन्दरैः पुनः पुनः निवेद्यते, यत् - हे भव्याः ! सावधानीभूय सेव्यतामयं पश्चाचारः, अनुभूयतां च निराबाधात्मसुखम् / आचाराङ्गाभिधमिदं आगमशास्त्रं गणधरैः अर्धमागधीप्राकृतभाषायां निबद्धमस्ति.. चतुर्दशपूर्वधरश्रीभद्रबाहुस्वामिभिः प्राकृतभाषायां नियुक्तिः निबद्धा अस्ति... तथा वृत्तिकारश्रीमत् शीला काचार्यैः संस्कृतभाषायां वृत्ति-व्याख्या विहिता अस्ति... किन्तु वर्तमानकालीनमन्दमतिमुमुक्षुभिः इदं आचाराङ्गसूत्रम् इयं नियुक्तिः वृत्ति-व्याख्या च दुरधिगम्या, अतः एतादृशी परिस्थितिः सजाताः यत् प्रभूततराः साधवः साध्व्यश्च विहितयोगविधयः अपि, आचाराङ्गसूत्रार्थस्य जिज्ञासवः अपि न श्रवणं लभन्ते, न च पठितुं शक्नुवन्ति, ततः यत् किमपि पठनं श्रवणं च कुर्वन्तः सन्तः दुर्लभं नरजन्मक्षणं मुधा गमयन्ति, ___अतः एवम्भूतानां मन्दमतीनां मुमुक्षूणां हितकाम्यया इयं राजेन्द्र सुबोधनी “आहोरी" हिन्दी टीका-व्याख्या विहिता. अभिधान-राजेन्द्र-कोशकार-श्रीमद्-विजय राजेन्द्रसूरीश्वराणामन्तेवासी शिष्यरत्न व्याख्यानवाचस्पति विद्वद्वरेण्य श्रीमद् यतीन्द्रसूरीश्वराणां विनेय शिष्यरत्नज्योतिषाचार्य-श्रीमद् जयप्रभविजयैः गुरुबन्धुश्री सौभाग्यविजयादीनां सत्प्रेरणया तथा च विनेय शिष्यरत्न हितेशचन्द्रविजयदिव्यचन्द्रविजयादीनां नमनिवेदनेन...