________________ सम्पादनवेलायाम्... पं. श्री लीलाधरात्मजः रमेशचन्द्रः हरिया अयि हंहो ! शृण्वन्तु तत्रभवन्तः प्रेक्षावन्तः भोः भोः सज्जनाः ! अनादिनिधनस्थितिकेऽस्मिन् संसारसागरे नैके असुमन्तः प्राणिनः स्वस्वकृतकर्म-परवशीभूय निमज्जनोन्मज्जनं कुर्वन्तः सन्ति / सदैव सर्वेषां जीवानां एकैव आकाङ्क्षा अस्ति यत् दुःखानां परिहारेण सर्वथा सुखीभवामः, किन्तु तेषां जीवानां यादृशी आकाङ्क्षा अस्ति, तदनुरूपः पुरुषार्थस्तु नास्ति... यतः साध्यानुरूपं हि साधनं साध्यसिद्धिं प्रति समर्थीभवति। जीवानां साध्यं अस्ति निराबाधं अक्षयं अनन्तं आत्मसुखम्, किन्तु तैः साधनं तदनुरूपं न स्वीकृतम्.. निराबाधसुखस्य साधनं अस्ति सम्यक्चारित्रम्... तत् च सर्वसावधनिवृत्तिस्वरूपम् सावधं नाम पापाचरणम्... पापाचरणं नाम जगज्जन्तूनां त्रिविध- त्रिविधपीडोद्भावनम्... अतः पापाचरणस्य परिहारः हि निराबाधसुखस्य असाधारणं साधनं अस्ति इति अवगन्तव्यम् / परहितकरणेनैव स्वहितं स्यात्, नाऽन्यथा। परपीडा-विधानेन तु आत्मपीडैव सम्भवेत् इति वार्ता निश्चितं विज्ञेया। यः कोऽपि परेभ्यः यत् यत् कामयते, तत् तत् परेभ्यः प्रथमं दातव्यं भवति... यथा आमबीजवपनेन एव आमफलं लभ्यते, नाऽन्यथा इति तु जानीते आबालगोपालः / वर्तमानसमये ये ये जीवाः दुःखिनः सन्ति, तैः पूर्वस्मिन् काले परेभ्यः दुःखं दत्तं स्यात्, अन्यथा ते कदापि दुःखिनः न स्युः इति मन्ये / ये केऽपि प्रेक्षावन्तः चेद् गम्भीरीभूय चिन्तयेयुः तदा जगज्जीवानां दुःखनिदानं सम्यग् जानीयुः / यद्यपि कोऽपि जीवः कस्मैचिदपि दुःखं दातुं नेच्छति, तथापि मिथ्यामोहान्धचित्तत्वेन कर्मपरवशजीवः तथा तथा प्रवृत्तिं करोति यथा नैके जीवाः कष्टं प्राप्नुवन्ति, इति एवं प्रकारेण अविरतः जीवः परैः सह वैरानुबन्धभावं वर्धयति / फलतः सः जीवः अपारसंसारसागरे पुनः पुनः निमज्जनोमज्जनं कुर्वन् वर्तते, इतीयं वार्ता मिथ्या न, किन्तु सत्या एव / यदि केषाञ्चित् चेतसि अत्र सन्देहः स्यात् तर्हि पृच्छन्तु प्रेक्षावद्भ्यः सज्जनेभ्यः, श्रूयतां च तैः दत्तं सम्यग-उत्तरम् / केवलज्ञानालोके विश्वविश्वं करामलकवद् जानन्ते जिनेश्वराः / चातुर्गतिकंजीवानां