________________ 24 श्रीजैनधर्मवरस्तोत्रम् चारित्रस्य सप्ततिभेदगाथा१२वय 5 समणधम्म 10 संजम 17, ५वेयावच्चं 10 च ६बंभगुत्तीओ 9 / नाणाइतियं 3 'तव 12 कोहनिग्गहाई 4 चरणमेयम् // 1 // " आर्या अथ क्रियायाः सप्ततिभेदगाथा"९पिं°°डविसोही 4 ११समिई 5, १२भावण 12 १३पडिमा 12 य इंदियनिरोहो 5 / १४पडिलेहण 25 १५गुत्तीओ 3 १६अभिग्गहा 4 चेव करणं तु // 1 // " आर्या इति // 1. छाया-व्रतश्रमणधर्मसंयमवैयावृत्यं च ब्रह्मगुप्तयः / ज्ञानादित्रिकं तपः क्रोधनिग्रहादि चरणमेतत् // 2. अहिंसा, सत्यं, अस्तेयं, ब्रह्मचर्य, अपरिग्रह इति पञ्च व्रतानि / 3. क्षान्तिः, मुक्तिः, आर्जवं, मार्दवं, शौचं, सत्यं, संयमः, तपः, अकिञ्चनं, ब्रह्मचर्यं इति दशविधः श्रमणधर्मः। 4. पृथ्वीकाय-अप्काय-तेजस्काय-वायुकाय-वनस्पतिकाय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियपञ्चेन्द्रिय-अजीवकाय-प्रेक्षण-उपेक्षा-परिष्ठापन-प्रमार्जन-मन-वचन-कायविषयकः संयमः // प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरूपपञ्चाश्रवविरमणं, स्पर्शनरसनघ्राणचक्षुः श्रोत्ररूपपञ्चेन्द्रियनिग्रहः, क्रोधमानमायालोभरूपकषायजयः, मनोवाक्कायदण्डत्रयविरतिः इति सप्तदशविधो वा संयमः / / 5. दशविधं वैयावृत्त्यं यथा-आचार्य-उपाध्याय-तपस्वि-शैक्षक-ग्लान-गण-कुल-सङ्घ-साधुसमनोज्ञविषयकम् / 6. सस्त्रीकवसतित्याग-स्त्रीकथाविरतता-स्त्रीनिषद्योपवेशनत्याग-स्त्यावलोकनपरिहार-कुड्यान्तरपर्वक्रीडितप्रणीताशनातिमात्राहारविभूषणवर्जनानि इति नवविधा ब्रह्मगुप्तयः / 7. ज्ञानं दर्शनं चारित्रं च / / 8. अनशनं, अवमौदर्य, वृत्तिसंक्षेपः, रसपरित्यागः, कायक्लेश: संलीनता इति षड्विधं बाह्यं तपः, आभ्यन्तरमपि षड्विधं, तद्यथा-प्रायश्चित्तं, विनयः, वैयावृत्त्यं, स्वाध्यायः, त्यागः, ध्यानम् / 9. छाया-पिण्डविशुद्धिः समितिः भावनं प्रतिमा च इन्द्रियनिग्रहः / / प्रतिलेखनं गुप्तयः अभिग्रहाश्चैव करणं तु // . 10. आहारः, उपाश्रयः, वस्त्रं, पात्रं इति एतद्विषया चतुर्विद्या पिण्डविशुद्धिः / 11. सम्यक प्रकारेण ईर्या, भाषा, एषणा, आदाननिक्षेपौ, उत्सर्ग इति पञ्च समितयः / 12. अनित्य-अशरण-संसार-एकत्व-अन्यत्व-अशुचित्व-आश्रव-संवर-निर्जरा-लोक-बोधिदुर्लभता-धर्मस्वाख्याततत्त्वानुचिन्तना इति द्वादश भावनाः / 13. एकमासिकी द्विमासिकी त्रिमासिकी यावत् सप्तमासिकी इति सप्त प्रतिमाः, सप्तानां प्रतिमानामुपरि प्रथमा द्वितीया तृतीया सप्तरात्रिन्दिवा प्रत्येका इति अष्टमी नवमी दशमी, अहोरात्रिका एकादशी, एकरात्रिकी द्वादशी प्रतिमा / 14. मुखपोतिका 1 चोलपट्टः 2 कल्पत्रिकं-एक ऊर्णामयो द्वौ सूत्रमयौ 3-4-5 द्वे निषद्ये रजोहरणस्य, एका सूत्रमयी अभ्यन्तरनिषद्या 6 द्वितीया बाह्या पादप्रोञ्छनरूपा 7 रजोहरणं 8 संस्तारकः 9 उत्तरपट्टश्च.१० / एतेषां दशानामपि स्थानानां प्रतिलेखनायां कृतायामुद्गच्छति सूर्यः / अन्ये तु एकादशं दण्डकमाहुः / दिनस्य प्रहरत्रिकेऽतिक्रान्ते सति उपकरणचतुर्दशकं प्रत्युपेक्षते, तद्यथा-मुकवस्त्रिका, चोलपट्टः, गोच्छकः, पात्रप्रतिलेखनिका, पात्रबन्धः, पटलानि, रजस्त्राणं, पात्रस्थापनं, मात्रकं, पतद्ग्रहः, रजोहरणं कल्पत्रिकम् / उद्घाटपौरुष्यां सप्तविधपात्रनिर्योगप्रत्युपेक्षा भवति / तत्रासने समुपविष्टः प्रथम मुखवस्त्रिका प्रत्युपेक्ष्य गोच्छकं प्रत्युपेक्षते, ततः पटलानि, तत: पात्रकेसरिकां, ततः पात्रबन्धनं, ततो रजस्त्राणं, ततः पात्रं, ततः पात्रस्थापनमिति / 15. मनोगुप्तिः, वचनगुप्तिः, कायगुप्तिः / 16. द्रव्य-क्षेत्र-काल-भावभेदात् चतुर्धा /