________________ 148 श्रीजैनधर्मवरस्तोत्रम् ___ पंचसु भरहेसु कालतिगेण पनरचउवीसीसु 360, ते सव्वे 72,120,360, दोहिं गुणिआ 144, 240, 720 चउवीसी किज्जति / ___ जाया 6, 10, 30 चउवीसीओ / ताओ कमसो भणियत्थेण समगं भरहेरवएस वंदिज्जंति / इत्याद्यर्थाः सर्वेऽपि स्वस्वबुद्धिप्रकर्षलभ्याः सङ्ग्रहीताः // 15 // पूर्वविदेहोत्तरार्द्ध पूर्वलवणाब्धिसमीपे 8 पुष्कलावतीनामविजये श्रीसीमन्धरः 1, . अपरविदेहोत्तरार्द्ध पश्चिमसमुद्रसमीपे 25 वप्रविजये युगन्धरः 2, एवं पूर्वापरविदेह- . दक्षिणार्धयोः 9 वत्स 24 नलिनवतीविजययोः बाहुस्वामि 3 सुबाहु 4 नामानौ / धातकीखण्डे पूर्वदिग्विदेहे पूर्वानुक्रमेण सुजात 1 स्वयम्प्रभ 2 ऋषभानन 3 अनन्तवीर्याः 4 // 8 // पश्चिमदिक्स्थितविदेहे सूरप्रभ 1 विशालस्वामि 2 वज्रधर 3 चन्द्रानना: 4=12 // पुष्करार्धे तथैव बाहु 1 भुजग 2, ईश्वर 3, नेमिप्रभ 4 नामान: 4:16 / विश्वसेन 1 महाभद्र 2 देवयशो 3 ऽजितवीर्य 4 नामानश्च 4-20 / तत्र स्थितसकललोकानां प्रतिबोधं विदधाना विजयन्ते / तेषां लाञ्छनानि, यथा "२वसह 1 गय 2 हरिण 3 मक्कड 4 रवि 5 चंद 6 मियारि७ हत्थि 8 तह चंदे 9 / सूरे 10 संखे 11 वसहे 12 पउमे 13 पउमे 14 अ ससि 15 सूरा 16 // वसहो 17 हत्थी 18 चंदे 19 सूरे 20 (एए) ऊरूसु लंछणया / इय विहरमाणजिणवरवीसा सयमेव नायव्वा // " इति विहरमाणसीमन्धरादि 20 लाञ्छननामानि / एवं चत्तारि अट्ठदसेतिगाथाविवरणभावना कार्येति // . भट्टारकपुरन्दर-पूज्याराध्य-श्रीरत्नमण्डनसूरिशिष्य-विद्वत्सभामण्डनपूज्यपं० आगममण्डनगणिशिष्याणुसत्यमण्डनेन लिखितम् / 'बा(श? )मी' ग्रामे / सोमवासरे। शुभं भवन्तु( तु) // 1. पञ्चसु भरतेषु कालत्रिकेण पञ्चदशचतुर्विंशतिषु 360, ते सर्वे 72, 120, 360, द्वाभ्यां गुणिताः 144, 240, 720 चतुर्विंशतयः क्रियन्ते / जाताः 6, 10, 30 चतुर्विशतयः / ताः क्रमशो भणितार्थेन समकं भरतैरावतेषु वन्द्यन्ते / __ वृषभो गजो हरिणो मर्कटो रविश्चन्द्रो मृगारिर्हस्ती तथा चन्द्रः / सूर्यः शङ्खो वृषभः पद्मं पद्मं च शशी सूर्यः // वृषभो हस्ती चन्द्रः सूर्यः ऊरुषु लाञ्छनकाः / इति विहरज्जिनवरविंशतिः स्वयमेव ज्ञातव्या //