________________ 134 श्रीजैनधर्मवरस्तोत्रम् अथवा / गौः-सुखं प्रभा उद्द्योतश्च ताभ्यां उपलक्षितः हः-निवासः जीवाजीवाधारक्षेत्रं जगत् यस्मात् स जिनजन्ममहोत्सवसमयः तस्मिन् समये कनकगिरिशिखरे ला:इन्द्राण्यः ला:-इन्द्राश्च सरूपाणामेकशेषे द्वन्द्वे पूर्वपदस्य लोपत्वात् तेभ्यो लेभ्यो भवा गोहलिका / अत्र तन्दुलमय्यामष्टमङ्गल्यां वाल्पापि गोहलिकारचना प्रोक्ता // 40 // __ अथवा / गो:-सुखं प्रभा च ताभ्यां उपलक्षितं अहः-दिवसः यस्मात् जिनजन्मसमयात् सः, शेषं तथैव / यतः-"नारका अप्यमोदन्त" इति "उद्द्योतस्त्रिजगत्यासीत्" इति प्रसिद्धं जिनजन्मावसरे / अत्राहःशब्दोऽकारान्तः समासप्रत्ययत्वात् / एवमत्र प्राकृते हृस्वत्वं मकारागमश्च / तेन गुहलिका गुहली शेषं स्वभावतः सिद्धम् // 41 // इत्येवं सर्वत्र शुभस्थाने मङ्गलार्थं गोहलिकारचनाविषयः प्रोक्तः / अत्र काव्यानि इत्थं क्व क्व न विद्यते शुचिपदे गोधूलिकागोचरो ___ यस्तूपप्लवहृत्प्रधानवनितागानोत्सवैः पूर्वकम् / नीतः श्रीजिनदेशनान्तविषयं सच्छालिशालिर्बलि स्तच्छायाऽनुभवोऽनुभावभवनं तद्वत् प्रसिद्धोऽप्ययम् // 1 // " शार्दूल० श्रीतीर्थङ्करशासनोन्नतिकरी व्याख्यासमालङ्कृतिः साधुभ्यो विनयं नयं च ददती प्रत्यूहविध्वंसिनी / . सन्मुक्ताक्षतपूरिताक्षयगुणाकम्प्राकृतिः कौङ्कमी . ____ माङ्गल्यैकमयी व्ययीकृततमा गोधूलिका गीयते // 2 // शार्दूल० भो भो धर्मधनाः ! सरोजवदनाः ! पीनस्तनाः ! पावनाः ! . शीलालङ्कृतभूघनाः / स्वपघना ! गावोल्लसच्चन्दनाः ! / लब्ध्वा मर्त्यभवं तथा सुधवतां सौभाग्यमारोग्यतां / धद्ध्वं तत्फललब्धे गुरुपुरो गोधूलिकागौरवम् // 3 // शार्दूल० स्वगुरुपदकृपातो ज्ञातकिञ्चिद्रहस्यः शिवपथकथकार्हच्छासने भव्यभक्तिः / . समयरुचजनार्थं सूरिभावप्रभाख्यो गदति गलितपापं स्पष्टगोधुलिकार्थम् // 4 // मालिनी इति श्रीभावप्रभसूरीणामियं कृतिः शिष्यादीनां बुद्धिलतापल्लवनार्थं सम्पूर्णा / संवत् 1958 / 1. वीतरागस्तोत्रे दशमे प्रकाशे सप्तमस्य पद्यस्येदमाद्यं चरणम् / सम्पूर्णं तत् पद्यं तु यथा "नारका अप्यमोदन्त, यस्य कल्याणपर्वसु / पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? // " 2. सु-सुष्ठ अपघन:-देहो यासां ताः /