________________ 204 श्री औपपातिकसूत्रम् 193 ईसीपब्भाराए णं पुढवीए दुवालस णामधेज्जा पण्णत्ता, तं जहाईसी ति वा ईसीपब्भारा ति वा तणू ति वा तणुतणू ति वा सिद्धी ति वा सिद्धालए ति वा मुत्ती ति वा, मुत्तालए ति वा, लोयग्गे ति वा, लोयग्गथूभिया ति वा, लोयग्गपडिबुज्झणा ति वा, सव्वपाणभूतजीवसत्तसुहावहा ति वा // 193 // [193] 'लोयग्गपडिबुज्झणा इ व'त्ति लोकाग्रमिति प्रतिबुध्यते-अवसीयते या, लोकाग्रं वा प्रतिबुध्यते यया सा तथा, 'सव्वपाणभूयजीवसत्तसुहावह'त्ति इह प्राणाद्वीन्द्रियादयः भूता-वनस्पतयः जीवाः-पञ्चेन्द्रियाः पृथिव्यादयस्तु-सत्त्वाः एतेषां च पृथिव्यादितया तत्रोत्पन्नानां सा सुखावहा शीतादिदुःखहेतूनामभावादिति,॥ 193 // .. 194 - ईसीपब्भारा णं पुढवी सेता संखतल-विमलसोल्लित-मुणाल-दगरयतुसार-गोक्खीर-हारवण्णा उत्ताणयछत्तसंठाणसंठिता सव्वज्जुणसुवण्णकमई अच्छा सण्हा लण्हा घट्ठा मट्ठा णीरया णिम्मला णिप्पंका णिक्कंकडच्छाया समरीचिया सुप्पभा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा // 194 // [194] 'सेय'त्ति श्वेता, एतदेवाह 'आयंसतलविमलसोल्लियमुणालदगरयतुसारगोक्खीरहारवण्ण'त्ति व्यक्तमेव, नवरम् आदर्शतलं-दर्पणतलं क्वचित् शङ्खतलमिति पाठः, आदर्शतलमिव विमला या सा तथा, 'सोल्लिय'त्ति कुसुमविशेषः, 'सव्वज्जुणसुर्वण्णमई 'त्ति अर्जुनसुवर्ण-श्वेतकाञ्चनम् अच्छा आकाशस्फटिकमिव 'सण्ह'त्ति श्लक्ष्णपरमाणुस्कन्धनिष्पन्ना श्लक्ष्णतन्तुनिष्पन्नपटवत् ‘लण्ह'त्ति मसृणा घुण्टितपटवत्, ‘घट्ठ'त्ति घृष्टेव घृष्टा खरशानया पाषाणप्रतिमावत्, ‘मट्ठ'त्ति मृष्टेव मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रमार्जनिकयेव, अत एव 'नीरय'त्ति नीरजा:-रजोरहिता 'निम्मल'त्ति निर्मला कठिनमलरहिता ‘निप्पंक'त्ति निष्पङ्का-आर्द्रमलरहिता अकलङ्का वा ‘णिकंकडच्छाय'त्ति निष्कङ्कटा-निष्कवचा निरावरणेत्यर्थः छाया-शोभा यस्याः सा तथा अकलङ्कशोभा वा, समरीचिय'त्ति समरीचिकाकिरणयुक्ता, अत एव 'सुप्पभ'त्ति सुष्ठ प्रकर्षेण च भाति-शोभते या सा सुप्रभेति ‘पासादीय'त्ति प्रसादो-मनःप्रमोदः प्रयोजनं यस्याः सा प्रासादीया 'दरिसणिज्ज'त्ति दर्शनाय-चक्षुर्व्यापाराय हिता दर्शनीया, तां पश्यच्चक्षुर्न श्राम्यतीत्यर्थः, 'अभिरूव'त्ति अभिमतं रूपं यस्याः सा अभिरूपा, कमनीयेत्यर्थः, 'पडिरूव'त्ति द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा प्रतिरूपा // 194|| 1. इ-मु. V // 2. संखतल- / पु.प्रे. J मु. V| आयंस०वृत्तौ / / 3. ०ण्णकमइ - खं. / ०ण्णसमइति - J | 4. समरीयत्ति Jखं. //