SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ 178 श्री औपपातिकसूत्रम् मणिकोट्टिमतलेसु परिरंगिज्जमाणे, परिरंगिज्जमाणे, गिरिकंदरमल्लीणे इव चंपगवरपादवे निव्वातनिव्वाघातं सुहंसुहेणं परिवड्डिस्सति A // 144 // __[144] 'ठिइवडियं काहिंति 'त्ति स्थितिपतितं-कुलक्रमान्तर्भूतं पुत्रजन्मोचितमनुष्ठानं करिष्यतः 'चंदसूरदंसणियंति चन्द्रसूर-दर्शनिकाभिधानं सुतजन्मोत्सवविशेषं 'जागरियंति रात्रिजागरिकां सुतजन्मोत्सवविशेषमेव 'निव्वत्ते असुइजायकम्मकरणे'त्ति निवृत्ते-अतिक्रान्ते अशुचीनाम्-अशौचवतां जातकर्मणां-प्रसवव्यापाराणां यत्करणं-विधानं तत्तथा, तत्र ‘बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामह्नां समाहारो द्वादशाहं तस्य दिवसो येनासौ पूर्णो भवतीति द्वादशाहदिवसस्तत्र 'अम्मापियरो 'त्ति अम्बापितरौ 'इमंति इदं वक्ष्यमाणम्, अयमिति क्वचिदृश्यते, तच्च प्राकृतशैलीवशात् “एयारूवंति एतदेव रूपं-स्वभाबो यस्य नान्यथारूपमित्येतद्रूपं गोणं'ति गौणं, किमुक्तं भवतीत्याह-'गुणनिप्फण्णं 'ति गौणशब्दोऽप्रधानेऽपि वर्तत इत्यत उक्तं गुणनिष्पन्नमिति, 'नामधे ज्जति प्रशस्तं नामैव नामधेयम्, इह स्थाने पुस्तकान्तरे पंचधाइ-परिग्गहिए' इत्यादि ग्रन्थो दृश्यते, स च प्राग्वद् व्याख्येय:, किञ्चिच्च तस्य व्याख्यायते-'हत्था हत्थं संहरिज्जमाणे 'त्ति एकस्माद् हस्ताद्धस्तान्तरं संह्रियमाणो-नीयमानः, अङ्कादकं परिभुज्यमानः-. उत्सङ्गादुत्सङ्गान्तरं परिभोज्यमानः उत्सङ्गस्पर्शसुखमनुभाव्यमानः, 'उवनच्चिज्जमाणे'त्ति उपनय॑मानो नर्तनं कार्यमाण इत्यर्थः, उपगीयमानः-तथाविधबालोचितगीतविशेषैर्गीयमानो गाप्यमानो वा 'उवलालिज्जमाणे'त्ति उपलाल्यमानः क्रीडादिलालनया ‘उवगूहिज्जमाणे 'त्ति उपगृह्यमानः आलिङ्ग्यमानः 'अवतासिज्जमाणे 'त्ति अपत्रास्यमानः अपगतत्रासः क्रियमाणः, अपयास्यमानो वा उत्कण्ठातिरेकान्निर्दयालिङ्गनेनापीड्यमानः, अप्रयास्यमानो वा समीहितपूरणेन प्रयासमकार्यमाणः, "परिवंदिज्जमाणे 'त्ति परिवन्द्यमानः स्तूयमानः, परिचुम्ब्यमान इति व्यक्तं, 'परिरिंगिज्जमाणे' त्ति परिरिङ्ग्यमाणः चङ्क्रम्यमाणः, एतेषां च संहियमाणादिपदानां द्विवचनमाभीक्ष्ण्यविवक्षयेति 'निव्वायनिव्वाघायं'ति निर्वातं निर्व्याघातं च यगिरिकन्दरं तदालीन इति / / 144 // 1. परिगिज्जमाणे - पु.प्रे.)। परंगमाणे-रायपसेणीयसूत्रे सू. 804 / / / 2. निव्वायनिव्वाघायंसि भगवतीवृत्तौ पत्र 545 / णिव्वाघायंसि - रायपसेणीयसूत्रे 804 // 3. गोण्णं - खं. // 4. ०धेयं - खं. J / / 5. परिभुण्य० खं. // 6. परियंदि० खं. / / 7. परंगिज्ज० मु. / / 8. परङ्गय० मु. / /
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy