________________ सूत्र -69-70 ] राज्ञीसुभद्रादिवर्णनम् 133 संकुलं करेंते' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र, ततः प्रतिशब्दलक्षसङ्कलान् कुर्वन् कूणिको निर्गच्छतीति सम्बन्धः, तथा 'हयहेसिय-हत्थिगुलुगुलाइय-रहघणघणसद्दमीसएणं महया कलकलरवेण व जणस्स महुरेण पूरयंते' इत्यत्र नभ इत्यनेन सम्बन्धः, प्रदेशदेशभागान् वेत्यनेन, 'सुगंधवरकुसुमचुण्णउव्विद्धवासरेणुकविलं नभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां च उव्विद्ध:-ऊर्ध्वं गतो यो वासरेणुः-वासकं रजः तेन यत्कपिलं तत्तथा 'नभं'ति नभ आकाशं कुर्वन्, 'कालागुरु-कुंदुरुक्क-तुरुक्कधूवनिवहेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेषं प्राग्वत्, 'समंतओ खुभियचक्कवालं' सर्वतः क्षुभितानि चक्रवालानि-जनमण्डलानि यत्र निर्गमने तत्तथा तद्यथा भवतीत्येवं निर्गच्छतीत्येवं सम्बन्धः, तथा 'पउरजणबाल-वुड्डपमुइय-तुरियपहावियवाउलाउलबोलबहुलं नभं करेंते' प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च-शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानाम्-अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा तदेव भूतं नभः कुर्वन्निति / अथाधिकृतवाचनाऽनुश्रीयते-'अदूरसामंते' अनिकटासन्ने उचिते देशे इत्यर्थः, 'ठवेइ 'त्ति स्थिरीकरोति / 'अवहट्ट'त्ति अपहृत्य-परित्यज्य 'राजककुहाई 'ति नृपचिह्नानि उप्फेसं'ति मुकुटं 'वालवीयणियंति चामरं 'सचित्ताणं दव्वाणं विसरणयाए'त्ति पुष्पादिसचेतनद्रव्यत्यागेन 'अचित्ताणं दव्वाणं अविउ सरणयाए'त्ति वस्त्राभरणाद्यचेतनद्रव्याणामत्यजनेन 'चक्खुफासे 'त्ति भगवति दृष्टिपाते 'हत्थिक्खंधविट्ठभणयाए 'त्ति वाचनान्तरं, तत्र हस्तिलक्षणो य: स्कन्धः-पुद्गलसञ्चयस्तस्य या विष्टम्भना-स्थापना सा तथा तया, 'तिक्खुत्तो'त्ति त्रिकृत्वः त्रीन् वारानित्यर्थः 'आयाहिणपयाहिणं'ति आदक्षिणात्-दक्षिणपार्थादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्ती यः स आदक्षिणप्रदक्षिणस्तं करोति, दक्षिणपार्श्वतस्त्रिोम्यतीत्यर्थः 'वंदती'त्यादि प्राग्वत् // 69 // 70 - तए णं ताओ सुभद्दाप्पमुहाओ देवीओ अंतो अंतेपुरगयाओ - सयसहस्सपागेहि तेल्लेहिं अब्भंगियाओ समाणीओ सुकुमालपाणिपादाहिं इत्थियाहिं चउव्विहाए सुहपरिकम्मणाए संवाहणाए संवाहिज्जंति तं जहाअट्ठि-मंस-तया-रोम-सुहाए वाहुयसुभगसोवत्थिय-बद्धमाण-पूसमाणव 1. JI०बहलं - खं. // 2. J / उफेसं - खं. // 3. विष्कम्भना - खं. // 4. -- चिह्नद्वयमध्यवर्तिपाठ:- पु.प्रे. वृत्तौ वाचनान्तरेऽपि अस्ति, मु. V नास्ति / प्रतौ इत्थं पाठः - अंतो अंतोउरंसि व्हाया जाव पाउच्छित्ताओ . सव्वालंकारविभूसियाओ बहुहिं //