________________ सूत्र -67-68 ] कूणिकस्य समवरणगमनम् 127 पदार्थानां सर्वत्वे सत्यपि महत्त्वं न स्यादपीत्यत आह-'महया इड्डीए' इत्यादि महद्धा, युक्त इति गम्यम्, एवमन्यान्यपि पदानि, 'महया वरतुरिय-जमगसमग-प्पवाइएणं'ति महताबृहता वरतूर्याणां यमकसमकं-युगपत् यत्प्रवादितं-ध्वनितं तत्तथा तेन, ‘संख-पणवपडह-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरव-मुइंग-दुंदुभि-निग्घोसनाइयरवेणं'ति शङ्खःप्रतीतः पणवस्तु-भाण्डपडहो लघुपटह इत्यन्ये, पटहस्त्वेतद्विपरीतः, भेरी-महाकाहला झल्लरी-वलयाकारा उभयतो बद्धा खरमुही-काहला हुडुक्का-प्रतीता मुरजो-महामर्दलो मृदङ्गो-मर्दलः दुन्दुभी-महाढक्का एषां यो निर्घोष:- नादितरूपो रवः स तथा तेन, तत्र निर्घोषो-महाध्वनि दितं तु-शब्दानुसारी नाद इति / / 67 / / __68- तए णं तस्स कूणियस्स रण्णो चंपं नगरिं मझंमज्झेण निग्गच्छमाणस्स A 'सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुह-महापहेसु A बहवे अत्थत्थिया, कामत्थिया, भोगत्थिया, लाभत्थिया, इड्डिसिया किब्बिसिया करोडिया कारवाहिया संखिया चक्किया नंगलिया मुहमंगलिया वद्धमाणा पूसमाणवा खंडियगणा ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं ___ [68] 'अत्थत्थिया' द्रव्यार्थिनः 'कामत्थिया' मनोज्ञशब्दरूपार्थिन: 'भोगत्थिया' मनोज्ञगन्धरसस्पर्शार्थिनः 'लाभत्थिया' भोजनमात्रादिप्राप्त्यर्थिनः 'किदिवसिया' किल्बिषिकाः परविदूषकत्वेन पापव्यवहारिणो भाण्डादयः ‘करोडियाः' कापालिकाः ताम्बूलस्थगिकावाहका वा 'कारवाहिया' करपीडिता, नृपाभाव्यवाहिनो वा, ‘संखिया' शाङ्खिकाः चन्दनगर्भशङ्खहस्ता, माङ्गल्यकारिणः शङ्खवादका वा 'चक्किया' चाक्रिकाश्चक्रप्रहरणाः, कुम्भकारतैलिकादयो वा 'नंगलिया' गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भट्ट 1. वर०B खं. J नास्ति // 2. J लघुपडह- खं. / 3. खरमुखी - खं.J / / 4. वादित० JB ||5. AA चिह्नमध्यवर्तिपाठ: पु. प्रे. [ अस्ति, मु. JV नास्ति // 6. इड्डिसिया - पु. प्रे. / अस्ति मु. VJ नास्ति / "इड्डिसिय" त्ति रुढिगम्याः, 'किट्टिसिय'त्ति किल्विषिका भाण्डादय इत्यर्थः / क्वचित् किट्टिसिक स्थाने 'किव्विसिय' त्ति पठ्यते (भगवती० वृत्ति पत्र 481) / " इति v पृ. 43 टिप्पणे 11 // 7. "पूसमाणवा (भ. वृत्तिपत्र 481) अतः परं भगवतीवृत्तौ 'खंडियगणा' इति पाठो नास्ति, किन्तु तत्र त्रीणि पाठान्तराणि उल्लिखितानि सन्ति -- 'इज्जिसिया पिंडिसिया घंटिय' त्ति क्वचिदृश्यते तत्र च इज्यां - पूजामिच्छन्त्येषयन्ति वा ये ते इज्यैषास्त एव स्वार्थिके कप्रत्ययविधानात् इज्यैषिकाः, एवं पिण्डैषिका अपि, नवरं पिण्डो-भोजनम्, घण्टिकास्तु ये घण्ट्या चरन्ति तां वा वादयन्ति / " v . 43 टिप्पणे 12 // 8. मयदलधारिणो-इति जम्बूद्वीपप्र. टीका पृ.१४२ / /