________________ सूत्र -64-65 ] कूणिकस्य सपरिवारं प्रयाणम् 125 वीरतासूचको * नेत्रादिवस्त्रमयः पट्टो यैस्ते तथा, ततः कर्मधारयोऽतस्तेषां, 'गहियाउहप्पहरणाणं' गृहीतान्यायुधानि-खड्गादीनि प्रहरणाय यैस्ते तथा तेषाम्, अथवाआयुधान्यक्षेप्याणि प्रहरणानि तु क्षेप्याणीति A विशेषः // 64 // 65 - तए णं से कूणिए राया हारोत्थय-सुकय-रइतवच्छे कुंडलउज्जोविताणणे मउडदित्तसिरए णरसीहे णरवती परिंदे णरवसभे मणुयरायवसभकप्पे अब्भहियं रायतेयलच्छीए दिप्पमाणे हत्थिखंधवरगते सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेतवर-चामराहिं उद्धव्वमाणीहिं उद्धव्वमाणीहिं वेसमणे विव णरवती अमरवति-सण्णिभाए इड्डीए पहियकित्ती हय-गय-रह-पवरजोहकलिताए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव पुण्णभद्दे चेइए तेणेव पहारेत्थ गमणाए // 65 // __ [65] अथाधिकृतवाचनाऽनुश्रीयते-'तए णं से कूणिए राया' Aइत्यादि महं आसा' इत्येतदन्तं सुगमं व्याख्यातप्रायं च, नवरं 'पहारेत्थ गमणाए'त्ति सम्बन्धः, नरसीहे शूरत्वात् नरवई स्वामित्वात् नरिंदे परमैश्वर्ययोगात् नरवसभे अङ्गीकृतकार्यभरनिर्वाहकत्वात् 'मणुयरायवसहकप्पे' मनुजराजानां-नृपतीनां वृषभा नायकाश्चक्रवतिन इत्यर्थः, तत्कल्पःतत्सन्निभ उत्तरभरतार्द्धस्यापि साधने प्रवृत्तत्वात्, एवंविधश्च 'वेसमणे विव' यक्षराज इव, तथा 'नरवती अमरवइसन्निभाए इड्डीए पहियकित्ती' नरपतिरसौ केवलममरपतिसन्निभया ऋद्ध्या प्रथितकीर्तिः-विश्रुतयशा इति, 'जेणेव पुण्णभद्दे 'त्ति यस्यामेव दिशि पूर्णभद्रं चैत्यं 'तेणेव'त्ति तस्यामेव दिशि ‘पहारित्थ'त्ति प्रधारितवान्-विकल्पितवान् प्रवृत्त इत्यर्थः, 'गमणाए'त्ति गमनाय गमनार्थमिति // 65 // 66 - तए णं तस्स कूणियस्स रण्णो भिभसारपुत्तस्स पुरओ महं आसा आसधरा उभतो पासिं णागा णागधरा पिट्ठतो रहसंगल्लि // 66 // ... [66] 'महं आसे'त्ति महाश्वा-बृहत्तुरङ्गाः ‘आसधर 'त्ति अश्वधारकपुरुषाः 'आसवर 'त्ति पाठान्तरं, तत्र किम्भूता अश्वा इत्याह-'अश्ववराः' अश्वानां मध्ये प्रधानाः 'नाग'त्ति हस्तिनः 'नागधर 'त्ति हस्तिधारकपुरुषाः पाठान्तरं तथैव, 'रहसंगेल्लि'त्ति रथसमुदाय: // 66 / / 1. A चिह्नद्वयमध्यवर्तिवृत्तिपाठ: J नास्ति // 2. "अतः परं भगवतीवृत्तौ (पत्र 319) 'पालंबपलंबमाणपडसुकयउत्तरिज्जे' इति पाठः उल्लिखितोऽस्ति, परन्तु प्रस्तुत सूत्रे नैष पाठो लभ्यते।" इति v पृ. 42 टिप्पणे 11 //