________________ 122 श्री औपपातिकसूत्रम् वनस्पतिविशेषस्तस्या मुकुलं-कुड्मलं मल्लिका च-विचकिलस्तद्वदक्षिणी येषां ते तथा तेषां, शुक्लाक्ष्णामित्यर्थः, 'चंचुच्चिय-ललिय-पुलिय-चल-चवल-चंचल-गतीणं' चंचुच्चियंति प्राकृतत्वेन चञ्चुरितं-कुटिलगमनम् अथवा चञ्चुः-शुकचञ्चुस्तद्वद्वक्रतयेत्यर्थः, उच्चितम्उच्चताकरणं पादस्य उच्चितं वा-उत्पाटनं पादस्यैव चञ्चुच्चितं तच्च ललितं चविलासवद्गतिः पुलितं च-गतिविशेषः प्रसिद्ध एव एवंरूपा, चलानाम्-अस्थिराणां च सतां चपलेभ्यः सकाशाच्चञ्चला अतीव चटुलेत्यर्थो, गतिर्येषां ते तथा तेषां, 'लंघण-वग्गणधावण-धोरण-तिवईजइण-सिक्खिय-गतीणं' लङ्घनं-ग"देरतिक्रमणं वल्गनम्-उत्कुईनं धावनं-शीघ्रमृजुगमनं धोरणं-गतिचातुर्यं त्रिपदी-भूमौ पदत्रयन्यासः जयिनी चगमनान्तरजयवती जविनी वा-वेगवती शिक्षिता-अभ्यस्ता गतिर्यैस्ते तथा तेषां, 'ललंतलामगललाय-वरभूसणाणं' ललन्ति-दोलायमानानि लामंति-प्राकृतत्वाद्रम्याणि गललातानि- कण्ठे न्यस्तानि वरभूषणानि येषां ते तथा तेषां, 'मुहभंडग-ओचूलग-थासगमिलाण-चमरीगंड-परिमंडियकडीणं' मुखभाण्डकं-मुखाभरणम् अवचूला:-प्रलम्बमानगुच्छाः स्थासकाश्च-आदर्शकाकारा येषां ते तथा मिलाणत्ति-पर्याणैरथवा अम्लान:-अमंलिनैः चमरीगण्डैः-चामरदण्डैः परिमण्डिता कटिर्येषां ते तथा ततः कर्मधारयोऽतस्तेषां, 'किंकरवरतरुणपरिग्गहियाणं'ति व्यक्तम् / अथाधिकृतवाचनाऽनुश्रीयते-थासग-अहिलाण-चामरगण्ड-परिमंडियकडीणं' थासगअहिलाणत्ति इह मत्वर्थीयलोपात् स्थासका-ऽहिलाणवतामित्यर्थः, अहिलाणं चमुखसंयमनं, शेषं प्राग्वत् / तयाणंतरं च णं ईसिदंताणं ईसिमत्ताणं ईसितुंगाणं ईसिउच्छंगविसालधवलदंताणं कंचणकोसी-पविट्ठदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहगसुसंपउत्ताणं अट्ठसयं कुंजरवराणं पुरओ अहाणुपुब्बीए संपट्ठियं / गजवर्णके 'ईसिदंताणं'ति ईषत्-मनाग् दन्तानाम् 'ईसिउच्छंगविसालधवलदंताणं' उत्सङ्ग इव उत्सङ्गः-पृष्ठदेश ईषदुत्सङ्गे विशाला ये यौवनारम्भवतित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषाम् / 'कंचणकोसी-पविट्ठदंताणं' काञ्चनकोशी-सुवर्णखोला, 'वरपुरिसारोहगसुसंपउत्ताणं'ति क्वचिदृश्यते, तत्र आरोहका:-हस्तिपकाः / 1. उच्चिता० खं. // 2. BJ1 कण्ठेनाऽऽत्तानि -म. // 3. ईसी० / एवमग्रेऽपि // 4. प.प्रे. / / गयाणं - म.v J // 5. खं.। गजवर्णके-मु. J नास्ति / 6. उत्सङ्ग इव-मु. नास्ति / उच्छ० खं. एवमग्रेऽपि // .