________________ सूत्र - 24] विविधतपःस्वरूपम् तत उपर्युपरि चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, ततः पूर्ववदष्टावष्टमानि, ततोऽष्टमं षष्ठं चतुर्थं चेति / चतुर्थादीनि च क्रमेणैकोपवासादिरूपाणीति / अत्र चैकस्यां परिपाट्यां विकृतिभिः पारणकं, द्वितीयस्यां निर्विकृतिकेन, तृतीयायामलेपकृता, चतुर्थ्यां चाचाम्लेनेति / अत्र चैकैकस्यां परिपाट्यामेकः संवत्सरो मासाः पञ्च दिनानि च द्वादश, परिपाटीचतुष्टये तु संवत्सराः पञ्च मासा नव दिनानि चाष्टादशेति / एवमेकावलिं' कनकावल्यभिलापेनेत्यर्थः, एकावली च नान्यत्रोपलब्धेति न लिखिता / ___ 'खुड्डागं सीहनिक्कीलिय'ति वक्ष्यमाणमहासिंहनिष्क्रीडितापेक्षया क्षुल्लक सिंह निष्क्रीडितं-सिंहगमनं तदिव यत्तपस्तत् सिंहनिष्क्रीडितमित्युच्यते, तद्गमनं चातिक्रान्तदेशावलोकनतः, एवमतिक्रान्ततप:समासेवनेनापूर्वतपसोऽनुष्ठानं यत्र तत्सिहनिष्क्रीडितमिति तँच्चैवम्-चतुर्थं ततः षष्ठचतुर्थे अष्टमषष्ठे दशमाष्टमे द्वादशदशमे चतुर्दशद्वादशे षोडशचतुर्दशे अष्टादशषोडशे विंशतितमाष्टादशे विंशतितमं चेति क्रमेण विधीयते, ततः षोडशाष्टादशे चतुर्दशषोडशे द्वादशचतुर्दशे दशमद्वादशे अष्टमदशमे षष्ठाष्टमे चतुर्थषष्ठे चतुर्थं चेति, स्थापना चैवम्- 1 23656689 9 / / 4666333 1 / अत्र च एकस्यां परिपाट्यां दिनमानम् नवकसङ्कलने द्वे 45 / 45 अष्टकसङ्कलना चैका 36 सप्तकसङ्कलनाऽप्येकैव 28 पारणकदिनानि 33 सर्वाग्रम् 187, एवं च मासाः 6 दिनानि च 7, चतसृषु परिपाटीष्वेतदेव चतुर्गुणं स्यात्, तत्र वर्षे 2 दिनानि 28, तत्र च प्रथमपरिपाट्यां पारणकं सर्वकामगुणितं, द्वितीयस्यां निर्विकृतिकं, तृतीयायामलेपकारि, चतुर्थ्यामायामाम्लमिति / तवोकम्म पडिवण्णा, [ एवं ] भद्दपडिमं, महाभद्दपडिमं, सव्वतोभद्दपडिमं, आयंबिलवद्धमाणं तवोकम्मं पडिवण्णा, [अप्पेगइया ] मासिअं भिक्खु. पडिमं [ पडिवण्णा] एवं दोमासि पडिमं, तिमासियं पडिमं जाव सत्तमासियं भिक्खुपडिमं पडिवण्णा, अप्पेगइया पढमं सत्तराइंदियं भिक्खुपडिमं पडिवण्णा जाव तच्चं सत्तराइंदियं भिक्खुपडिमं पडिवण्णा ___एवं महासिंहनिष्क्रीडितमपि, नवरमिह स्थापना एकादयः षोडशान्ताः पुनः षोडशादय एकान्ताः स्थाप्यन्ते, तत्र व्यादीनां षोडशान्तानामग्रे प्रत्येकमेकादयः पञ्चदशान्ताः 1. एवमेगावली -B || 2. सिंहनिक्री०मु.। सिंहनि:क्री० B खं., एवमग्रेऽपि // 3. तुला-ज्ञाताधर्मकथासूत्रम् अ.८ / सू.६४ / 4. खं / ०माचामा० मु.॥ 5. तुला-अन्तकृद्दसाङ्गवृत्तिः प. 28 B ||