________________ 422 शोभनस्तुति-वृत्तिमाला आसनाम्भोरुहभ्राज-दक्षाक्षिप्ताऽऽशु भासिता / शान्तिदेवी मुदे स्ताद् वो, दक्षा क्षिप्ताशुभा सिता // 1 // अवचूरिः हे सवेगनतदेववधूजनस्तनपीठीषु लुठतां तारहाराणां स्फुरद्रश्मिभिः सारे-कर्बुरे क्रमाम्भोरुहे-चरणकमले यस्यास्तस्याः संबोधनम् / ‘परमवसुतराङ्गजा' अतिशयेन परमवसू-परमतेजसौ अङ्गजौपुत्रौ यस्याः सा / रावण-ध्वनिना सम्यग् नाशितः-अदर्शनं नीतः अरातिभारः-शत्रुवर्गो यया सा / अजिते / - अपराभूते ! / भासिनी-भासनशीला | हारतारा-हारोज्ज्वला / बलं क्षेमं च ददाति या / सिंहे कथंभूते ? ! क्षणरुचिरुचिराभिः-विद्युद्दीप्तिभिरिव रुचिराभिः उर्वीभिः चञ्चन्तीभिः सटाभिः संकट उत्कृष्टो यः कण्ठस्तेनोद्भटे / हे अम्ब !-मातः ! / हे अम्बिके ! देवि! / परं-उत्कृष्टमव-रक्ष। सुतराम् अत्यर्थम् / गजारौ-सिंहे असन्ना-अखिन्ना संस्थिता / शितस्य-तनूप्रकृतस्य आरस्येव-पित्तलस्येव अतिशयेन भा यस्याः सा / राजिते-भ्राजिते / भासमानहिमनक्षत्रधवले / अमदा-मदरहिता / हे अम्बिके ! सिंहे संस्थिते ! सुतरां त्वं भव्यलोकमवेति संबन्धः // 4 // 24 / .96 // इति श्रीमहाकविशोभनमुनिप्रणीता सावचूरिश्चतुर्विंशतिजिनस्तुतिः /