SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीवीरजिनस्तुतयः 403 इत्यभिधानचिन्तामणि (का० 1, श्लो० 60) वचनात् / पुनः किंविशिष्टं समवसरणम् ? / आसमन्तात् रोचितं-शोभितं भासितं वा ‘आरोचितम्' / तथा ऋषीणां समूहः आरं, यद्वा अरति-संसारपारं गच्छन्तीति आरा-मुनयः तेषां उचितं-योग्यं ‘आरोचितम्' / पुनः किंविशिष्टं समवसरणम् ? / यशसाकीर्त्या भातानि यानि पत्राणि-वाहनानि हस्त्यश्वरथशिविकादीनि तानि भजन्ते तादृशा(शी) या उर्वरापृथ्वी तस्या राजो-राजानः चक्रवर्त्यादयः परेता-भूतप्रेतपिशाचव्यन्तरादयः अहयः नागाख्या भवनवासिंदेवविशेषाः ताराः-ज्योतिष्कदेवविशेषाः तेषां उचितं-योग्यं 'यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम्' / इति पदार्थः / / अथ समासः-स्फुरन्तः केतवो यस्मिन् तत् स्फुरत्केतु, स्फुरत्केतु (च) चक्रं च आनकाश्च स्फुरत्केतुचक्रानकाः, अनेकानि च तानि पद्मानि च अनेकपद्मानि, इन्दुवद् रुग् येषां तानि इन्दुरुञ्चि, इन्दुरुञ्चि च तानि चामराणि च इन्दुरुक्चामराणि, शालानां त्रयी शालत्रयी, उत्सर्पिणी चासौ शालत्रयी च उत्सर्पिशालत्रयी, स्फुरत्केतुचक्रानकाश्च अनेकपद्मानि च इन्दुरुक्चामराणि च उत्सर्पिशालत्रयी च स्फुरत्केतुचक्रानकानेकपद्धेन्दुरुक्चामरोत्सर्पिशालत्रयी, अवनमन् चासौ अशोकश्च अवनमदशोकः, सन् चासौ अवनमदशोकश्च सदवनमदशोकः, स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयी च सदवनमदशोकश्च स्फुरत्केतुचक्रानकानेकपद्धेन्दुरुक्चामरोत्सर्पिशालत्रयीसदवनमदशोकः, पृथ्व्याः क्षणप्राया-उत्सवतुल्या पृथ्वीक्षणप्राया, (पृथ्वीक्षणप्राया) शोभा येषां तानि पृथ्वीक्षणप्रायशोभानि, आतपात् त्रायन्ते इति आतपत्राणि, पृथ्वीक्षणप्रायशोभानि च तानि आतपत्राणि च पृथ्वीक्षणप्रायशोभातपत्राणि, स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसदवनमदशोकश्च पृथ्वीक्षणप्रायशोभातपत्राणि च स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्राणि, स्फुरत्केतु०प्रायशोभातपत्राणां प्रभा स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभा, स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभाभिर्गुरु [यत्] स्फुरत्केतुचक्रानकानेकपद्धेन्दुरुक्चामरोत्सर्पिशालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु / परेता-गताः अहिताःशत्रवो येषां ते परेताहिताः-साधवः, परेताहितैः आरोचितं परेताहितारोचितम्; यद्वा परेता-गता अहिताईतयो यस्यां सा परेताहिता, अर्हतां संहतिपक्षे आ-समन्तात् रोचितं-भासितं आरोचितं, यद्वा अरन्तिगच्छन्ति भवस्य पारं आराः-मुनयः, आराणां उचितं आरोचितम् / भक्तिं भजन्तीति भक्तिभाजः, तेषां भक्तिभाजाम् / अम्भांसि धीयन्ते इति अम्भोधिः, भव एव अम्भोधिः भवाम्भोधिः, भवाम्भोधौ सम्भ्रान्ता भवाम्भोधिसम्भ्रान्ताः, भवाम्भोधिसम्भ्रान्ताश्च ते भव्याश्च भवाम्भोधिसम्भ्रान्तभव्याः, भवाम्भोधिसम्भ्रान्तभव्यानां आवली भवाम्भोधिसम्भ्रान्तभव्यावली, भवाम्भोधिसम्भ्रान्तभव्यावल्या सेविता
SR No.004430
Book TitleShobhan Stuti Vruttimala Part 02
Original Sutra AuthorN/A
AuthorRihtvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages234
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy