________________ 160 शोभनस्तुति-वृत्तिमाला असारतरागमं दृणातीति असारतरागमदारी, तेन असारतरागमदारिणा / मनीषा-बुद्धिः येषां ते मनीषिणः, तेषां मनीषिणाम् / न विद्यते तमो यस्यासौ अतमाः, तेन अतमसा / रतं च रागश्च मदश्च रतरागमदाः, रतरागमदानां अरिः रतरागमदारिः, तेन रतरागमदारिणा / / इति तृतीयवृत्तार्थः / / 39 / / दे० व्या०-जयतीति / इह-अस्मिन् लोके मतं-प्रवचनं जयति-सर्वोत्कर्षेण वर्तते इत्यन्वयः / 'जि जये' धातुः / 'जयति' इति क्रियापदम् / किं कर्तृ ? / मतम् / किंविशिष्टं मतम् ? / 'कल्पितकल्पतरूपमम्' कल्पिता-घटिता कल्पतरुणा-कल्पवृक्षण उपमा-साम्यं यस्य तत्, सकलमनोरथप्रपूरकत्वात् / पुनः किंविशिष्टम् ? / प्रथितं-विस्तारं प्रापितम् / केन ? / जिनेन-तीर्थंकरेण / जातावेकवचनम् / केषाम् ? / मनीषिणां-पण्डितानाम् / किंविशिष्टेन जिनेन ? / 'असारतरागमदारिणा' असारतरान्-अतिशयेन अप्रशस्यान् मिथ्यात्वरूपानिति यावत् आगमान्-सिद्धान्तान् दृणातिविदारयतीत्येवंशीलस्तथा तेन / पुनः किंविशिष्टेन ? / अतमसा-अज्ञानरहितेन / नास्ति तमः-अज्ञानं यस्येति विग्रहः / पुनः किंविशिष्टेन ? / 'रतरागमदारिणा' रतं-मैथुनं रागो-द्रव्यादावभिलाषः मदो-जात्याद्युत्थोऽभिनिवेशः तेषां अरिणा-शत्रुणा, सर्वात्मना तदुच्छेदकारित्वात् / / इति तृतीयवृत्तार्थः / / 39 / / ध० टीका-जयतीति / 'जयति' सर्वमतिशेते / 'कल्पितकल्पतरूपमम्' कल्पिता-समर्थिता कल्पतरुणा-कल्पवृक्षेण उपमा-साम्यं यस्य तत् / 'मतं' श्रुतम् / 'असारतरागमदारिणा' असारतरान्अतिशयनिःसारान् आगमान् दारयत्येवंशीलो यस्तेन / 'प्रथितं' प्रख्यापितम् / अत्र' अस्मिन् / 'जिनेन' सर्वविदा / 'मनीषिणां' मतिमताम् / 'अतमसा' तमोरहितेन / 'रतरागमदारिणा' रतविषयो यो रागो रतरागः स च मदश्च तयोः अरिणा-विद्विषा / मनीषिणां रतरागमदारिणा जिनेन प्रथितं अत्र मतं जयतीति योगः / / 39 / / (6) अवचूरिः जिनेन मनीषिणां-गणभृतां प्रथितं-प्रोक्तं मतं जयति / किंभूतम् ? / कल्पिता-समर्पिता सकलमनोरथपूरणात् कल्पतरुणा उपमा-साम्यं यस्य तत् / असारतरान्-मिथ्यारूपानागमान् दृणातीत्येवंशीलः / जिनविशेषणमिदम् / पुनः किंभूतेन ? / रते-मैथुने रागो रतरागः, मदश्च जात्याधुत्थोऽभिनिवेशः, यद्वा रतं-मैथुनम्, रागो-द्रव्यादावभिलाषः, मदः पूर्वोक्त एव, तेषामरिणा-वैरिणा / / 39 / /