________________ 136 शोभनस्तुति-वृत्तिमाला सौ० वृ०-वज्राङ्कुश्यङ्कुशेति / हे वज्राङ्कुशि [नाम्नि देवि] !-वज्राङ्कुशाभिधाने ! देवि ! तनुमदवने-जन्तुरक्षणे त्वं प्रयलं-यलं विधत्स्व इत्यन्वयः / ‘विधत्स्व' इति क्रियापदम् / का की ? | 'त्वम्' / 'विधत्स्व' कुरु / कं कर्मतापन्नम् ? / 'प्रयलं' यलम् / कस्मिन् ? / तनुः-शरीरं तद्वन्तः-देहिनः तेषां अवनं-रक्षणं तस्मिन् 'तनुमदवने' / किंविशिष्टा त्वम् ? / अङ्कुशं-सृणिं कुलिशं-वज्रं ते द्वे बिभर्तीति 'अङ्कुशकुलिशभृत् !' / हे ‘स्वायत्यागे !' सु-शोभनः आयो-लाभः अर्थादि: त्यागो-दानं ते द्वे यस्याः सा स्वायत्यागा, तस्याः सं० हे स्वायत्यागे ! | पुनः किंविशिष्टा त्वम् ? / हेम-स्वर्णं तद्वत् तारा-उज्ज्वला 'हेमतारा' / हे 'अध्यारूढे !' आरूढे ! / कस्मिन् ? / 'द्विपेन्द्रे' गजपतौ / किंविशिष्टे द्विपेन्द्रे ? / ('अतिमत्ते') अति-अत्यर्थं मत्ते-मदवति-उद्धते / पुनः किं० द्विपेन्द्रे ? / शशधरः-चन्द्रः तस्य कराःकिरणाः तद्वत् श्वेता-धवला भाः-कान्तिः यस्यासौ तस्मिन् ‘शशधरकरश्वेतभासि' / पुनः कथंभूते ? | हे 'अमतारातिमत्ते !' अमता-अनभिप्रेता अरातिमत्ता-विपक्षभावता यस्याः सा अमतारातिमत्ता, तस्याः सं० हे अम० ! | पुनः किंवि० त्वम् ? / [तारातिमत्ते त्वं] / स्वायत्या-निजाशयेन, स्वभावेन वा अगेपर्वते अध्यारूढे ! / किंविशिष्टे अगे ? / अतनु-प्रचुरं मदवनं यस्य सः अतनुमदवनः, तस्मिन् अतनुमदवने, द्विपेन्द्रेऽप्येवंविधे अतनु-प्रचुरं मदवनं-मदवारि यस्य स तस्मिन् अत०वने / इति पदार्थः / / अथ समासः-अङ्कुशश्च कुलिशं च अङ्कुशकुलिशे, अङ्कुशकुलिशे विभर्ति सा अङ्कुशकुलिशभृत् / आयश्च त्यागश्च आयत्यागौ, सु-शोभनौ आयत्यागौ यस्याः सा स्वायत्यागा, तस्याः सं० हे स्वायत्यागे ! / तनवो विद्यन्ते येषां ते तनुमन्तः, तनुमतां अवनं तनुमदवनं, तस्मिन् तनुमदवने / हेमवत् तारा हेमतारा / अतिशयेन मत्ता अतिमत्ता, तस्याः सं० हे अतिमत्ते ! / द्विपेन्द्रेऽप्येवंविधः समासः / अतिशयेन मत्तो-मदवान् (अति०), तस्मिन् अतिमत्ते / शशं धरति इति शशधरः, शशधरस्य कराः शशधरकराः, शशधरकरा इव श्वेता भाः यस्यासौ शशधरकरश्वेतभाः, तस्मिन् शशधरकरश्वेतभासि / द्वाभ्यां-मुखशुण्डाभ्यां पिबतीति द्विपः, (तस्येन्द्रः) तस्मिन् / अगे (?) / न तनुः अतनुः, अतनुश्चासौ मदश्च अतनुमदः, (अतनु०) वनानि-काननानि यस्मिन् सः अतनुमदवनः, तस्मिन् अतनुमदवने / द्विपेन्द्रपक्षे अतनुः-प्रचुरः मदस्य-दानस्य वनं-पानीयं यस्य सः अतनुमदवनः, तस्मिन् / हे संबोधने पदे पृथग् ज्ञेयम् / अरातिर्विद्यते यस्यासौ अरातिमान्, अरातिमतो भावः अरातिमत्ता, न मता अमता, अमता अरातिमत्ता यस्याः (सा) अमतारातिमत्ता, तस्याः सं० हे अमतारातिमत्ते ! / / इति चतुर्थवृत्तार्थः / / 32 / / श्रीचन्द्रप्रभदेवस्य, स्तुतेरर्थः स्फुटीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // // इति चन्द्रप्रभजिनस्तुतिः // 4 / 8 / 32 //