SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ [51] नवतत्व वृ पेक्षया स्तनद्वयसद्भावेनैकादश श्रोतांसि निरन्तरं वहन्ति मलमूत्रश्लेष्मादीनि महाबीभत्सानि सहचारीणि सन्ति अशुचित्वं न किमपि शुचित्वमिति चिंतनमशौचभावना 6 मनोवाकाययोगैः शुभाशुभकर्माजनमाश्रवः७ मिथ्यात्वादीनां बन्धहेतुभूतानां संवरणस्योपायाः सम्यक्त्वादयो वर्तन्ते इति चिन्तनं संवरभावना 8 निर्जरा-कर्मनिर्जरणं सा द्वेधा-सकामनिर्जरा 1 अकाम निर्जरा 2 च सकाम निर्जरा साधूनामकामाऽज्ञानिजीवानां तत्र सकामा द्वादशप्रकारतपोभिः कर्मक्षयरूपा, अकामा पुनः तिर्यगादिजीवानां तृषा-बुभुक्षा-छेदन-भेदन-ताडन-तर्जन-भारोदहनादिना कष्टसहनेन यः कर्मक्षयस्तद्रूपा इति चिन्तनं निर्जराभावना 9 // 29 // . चतुर्दशरज्ज्वात्मको लोकः कटिसंस्थापितकरेण तिर्यप्रसारितपादेन पुरुषाकारेण सदृशो वर्तते पुनर्धमाधर्मास्तिकायाकाशास्तिकायकालपुद्गलजीवरूपैः षड्भिर्द्रव्यैः परिपूर्णों वर्तत इति चिन्तनं लोकस्वभावभावना 10 अनंतानंतकालेन दुर्लभा मनुष्यभवादिसामग्री, तस्याः प्राप्तावपि दुर्लभा बोधिजिनधर्मप्राप्तिरितिचिन्तनं बोधिभावना 11 संसारसमुद्रतारणे प्रवहणसमस्य जिनधर्मस्य साधका एवार्दा योग्या नान्ये इति चिन्तनं धर्मभावना 12 / एताश्च द्वादशभावना धर्ममनुष्येण प्रयत्नेन भावयितव्या इति द्वादशभावनाः पूर्णा 52 // 30 // - अथ चारित्रस्य पञ्च भेदानाहसामाइअत्थ पढमं छेओवट्ठावणं भवे बीअं / परिहारविसुद्धिअं सुहुमं तह संपरायं च // 31 // तत्तो अहक्खायं खायं सबम्मि जीवलोगम्मि / जं चरिऊण सुविहिया वचंति अयरामरं ठाणं // 32 //
SR No.004427
Book TitlePrakarantrai
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1989
Total Pages116
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy