________________ [46] नवतत्व वृ. धनधान्यादिनवविधपरिग्रहेण भवा पारिग्रहिकी 7 मायया परवञ्चनेन जाता मायाप्रत्ययिकी 8 // 22 // . मिथ्यादर्शनेन जिनवचनविपरीतपरिणामरूपेण प्रत्ययेन जाता मिथ्यादर्शनप्रत्ययिकी 9 अप्रत्याख्यानेनाविरत्या जाताऽप्रत्याख्यानिकी 10 दृष्ट्वा कौतुकनिरीक्षणादि जाता दृष्टिकी 11 रागाद्वा द्वेषाद्वा वृषभादिवालादिविशिष्टवस्तूनां हस्तस्पर्शनेन जाता स्पृष्टिकी 12 जीवाजीवादिकं प्रतीत्याश्रित्य कर्मबन्धनेन जाता प्रातित्यकी 13 स्वकीयगजतुरंगमवृषभादिविशिष्टपदार्थ विलोकयितुं लोकं सर्वतः समागच्छन्तं प्रशंसाकुर्वन्तं वा दृष्ट्वा हर्षकरणेनाथवाऽनाच्छादितस्नेहादिभाजने त्रसाणां जीवानां निपातेन जाता सामन्तोपनिपातिकी 14 राजाधादेशानितरां यन्त्रशस्त्राधाकर्षणेन संजाता नैशस्त्रिकी 15 जीवेनं श्वानादिनाऽजीवेन शस्त्रादिना शशकादिकं स्वहस्तेन मारयतः स्वाहस्तिकी 16 // 23 // __ जीवाजीवयोराज्ञापनेन स्वेच्छया व्यापाररूपेणानयनेन वाऽऽज्ञापनिक्यानयनिकी वा 17 जीवाजीवयोविदारणेन स्फोटनेन जाता वैदारणिकी 18 अनाभोगेन शून्यचितत्तया वस्तूनामादानग्रहणेन जाताऽनाभोगिकी 19 इहलोकविरुद्धाचरणेनानवकांक्षप्रत्ययिकी 20 अन्याऽपरा एकविंशतितमा प्रयोगेण मन-वचन-काययोगेन दुःप्रणिधानरूपेण जाता प्रायोगिकी 21 अष्टानां कर्मणां समुदायेन जाता सा सामुदायिकी, ___ मार्यमाणचौरं वा पश्यतां च भवतीति वृद्धाः 22 प्रेमेण मायालोभरूपेण जाता प्रेमिकी 23 क्रोधमानरूपेण जाता द्वेषिकी 24 केवलिनां केवलकाययोगेन जातैर्यापथिकी 25 / पूर्वोक्तसप्तदशभेदानां पञ्चविंशतिक्रियाणां च मीलने जाता आश्रवतत्वस्य द्विचत्वारिंशद्भेदाः 42 / व्याख्यातं पञ्चममाश्रवतत्वम् 5 // 24 //