________________ [40] नवतत्व वृ. गीरूपं 1 भावश्रुतं द्वादशांगीतः समुत्पनं उपयोगरूपं तस्यावरणं श्रुतज्ञानावरणं 2 अवधिज्ञानं द्विप्रकारं भवहेतुकं गुणहेतुकं च भवहेतुकं देवनारकाणां, गुणहेतुकं तु श्राद्धसाधूनां स्यात् तस्यावरणमवधिज्ञानावरणं 3 मनःपर्यायज्ञानं सार्द्धद्वयद्वीपसमुद्रस्थितसंज्ञिपञ्चेन्द्रियमनोविषयं तदपि द्विभेदं ऋजुमति-विपुलमतिभेदादिदं च साधनामेव भवति तस्यावरणं मन:पर्यायज्ञानावरणं 4 तथा घनघातिकर्मचतुष्टयक्षयेन समुत्पनं सकललोकालोकप्रकाशकं केवलज्ञानं तस्यावरणं केवलज्ञानावरणं 5 / अन्तरायपश्चकं चेदं दानान्तरायः 1 लाभान्तरायः 2 भोगान्तरायः उपभोगान्तरायः 4 वीर्यान्तरायः 5 येन कर्मणा चित्ते वित्ते पात्रे च प्राप्ते सति दानफले जाननपि न ददाति तदानान्तरायकर्म 6 येन कर्मणोद्यमे क्रियमाणेऽपि सामग्रीसमायोगेऽपि लाभो न स्यात् तल्लाभान्तरायकर्म 7 येन कर्मणा भोगवस्तुप्राप्ताव पि भोक्तुं न शक्यते तद्भोगान्तरायकर्म 8 येन कर्मणोपभोग्यवस्तुषु विद्यमानेष्वपि भोक्तुं न शक्यते तदुपभोगान्तरायकर्म 9 / ननु भोगोपभोगयोः को विशेषः ? उच्यते-सकृद्भोगो-यद्वस्तु पुष्पमालाचन्दनविलेपनादिकमेकवारमेव भोक्तुं शक्यते, उपभोगो चारंवारं तदेव वस्त्वाभरणगृहस्त्रीप्रमुखं भोक्तुं शक्यते / येन कर्मणा नीरोगोऽपि प्रधानावयवस्थोऽपि हीनबल: स्यात्तद्वीर्यान्तरायकर्म 10 पञ्चकद्वयमीलने जाता दश / ___ अथ द्वितीये कर्मणि दर्शनावरणे नव भेदास्ते चेमे-चत्वारि दर्शनावरणानि निद्रापश्चकं च, तत्र येन कर्मणा चक्षुर्दर्शनमात्रियते तच्चक्षुर्दर्शनावरणं 11 येन कर्मणा चक्षुर्दर्शनं विनाऽन्यानि चत्वारीन्द्रियदर्शनान्यात्रियन्ते तदचक्षुर्दर्शनावरणं 12 येन कर्मणाऽवधिदर्शनमात्रियते तदवधिदर्श नावरणं 13 येन कर्मगा केवलदर्शनमात्रियते तत् केवलदर्शनावरणं 14 /