SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रकरणत्रयी [37] - अथ पुण्यतत्त्वस्य द्विचत्वारिंशभेदानाह-- सा उच्चगोअमणुदुग सुरदुग, पंचेंदि जाइ पणदेहा। आइतितशृणुवंगा आइमसंघयणसंठाणा // 15 // वन्नच उक्काऽगुरुलहु परघा ऊसास आयवुज्जोअं। सुभखगइनिमिणतसदस सुरनरतिरिआउ तित्थयरं // 16 // तसबायपज्जत्तं पत्तेअथिरं सुभं च सुभगं च / सुसरआइज्जजसं तसाइदसगं इमं होइ // 17 // सात-सातावेदनीयं कर्म येन जीवः सातसौख्यानि लभते 1 उच्चैर्गोत्रं-यस्मिन्नुत्पन्नो जीवः सर्वलोकमान्यो भवति 2 मनुष्यद्विकंमनुष्यगतिः, मनुष्यानुपूर्वी च, यया कर्मप्रकृत्या जीवो मनुष्यगतिं लभते सा मनुष्यगतिः 3 यया कर्मप्रकृत्या मनुष्यगतिबद्धायु वः प्रान्तेऽन्यत्र गच्छन् मनुष्यगतावानीयते सा मनुष्यानुपूर्वी 4 तथा सुरद्विकं मुरगतिः 5 सुरानुपूर्वी 6 चार्थस्तु पूर्ववत् / पञ्चेन्द्रियजातिर्यया जीवस्य पञ्चेन्द्रियत्वं स्यात् 7 पणदेहत्ति-पञ्च देहाः पञ्च शरीराणि औदारिकं 1 वैक्रियं 2 आहारकं 3 तैजसं 4 कार्मणं च 5 तत्रोदारैः प्रधानैः पुद्गलैनिप्पन्नं यच्छरीरं तिर्यग्मनुष्याणां तदौदारिकमुदारत्वं च तीर्थकरगणधरापेक्षं ज्ञेयं 8 विविधयाऽणुत्वगुरुत्वादिक्रियया निष्पन्नं देवनारकाणां शरीरं वैक्रियं लब्धिमतां वा शरीरं 9 यचतुर्दशपूर्वधरैः संदेहोच्छेदनाय तीर्थकराणामृद्धिदर्शनाय वा महाविदेहक्षेत्रे गमनायैकहस्तप्रमाणमत्यन्तरूपसंपन्नं शरीरं क्रियते तदाहारकं 10 येन शरीरेण जीवैराहारो गृहीतः सन् खलरसादिधातुरूपतया परिणति नीयते यद्वा यद्वशात् तपोलब्ध्या तेजोलेश्याविनिर्गमश्च क्रियते तत्तैजसं 11 कार्मणशरीरमष्टविध
SR No.004427
Book TitlePrakarantrai
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1989
Total Pages116
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy