________________ प्रकरणत्रयी [35] अवगाहो आगासं पुग्गलजीवाण पुग्गला चउहा / खंधा देसपएसा परमाणु चेव नायव्वा // 11 // अजीवा पञ्च भवन्ति, के ते इत्याह-धर्मास्तिकायः 1 अधर्मास्तिकायः 2 पुद्गलास्तिकायः 3 'नह' इति-नभ आकाशं तेनाकाशास्तिकायः 4 कालः 5 / अथ लक्षणान्याहधर्मों धर्मास्तिकायश्चलनस्वभावः यस्य बलेन जीवाजीवौ चलतः१ / अधर्म:-अधर्मास्तिकायः स्थिरसंस्थानः, कोऽर्थः ? यस्य बलेन जीवाजीवौ स्थिर संस्थानेन निश्चलतया तिष्ठतः 2 // 10 // ___ आगासं-अवकाशः, कोऽर्थः ? स्तंभादौ यस्य बलेन कीलकः क्षिप्तः सन् प्रविशति तदाकाशं पुद्गलानां जीवानां चावकाशदायकम् 3 / ते पुद्गलाश्चतुर्धा चतुःप्रकारा-स्कन्धाः 1 देशाः 2 प्रदेशः 3 परमाणुश्च 4 / ननु प्रदेशपरमाण्वोः परस्परं को भेदः ? उच्यते-प्रदेशोऽपि निर्विभागः परमाणुरपि निविभागः, परं स्कन्धलग्नः प्रदेशः स्कन्धात् पृथग्भूतः परमाणुरिति वृद्धाः // 4 // 11 // अथ कालस्य भेदानाह-- समयावली मुहुत्ता दीहा पक्खा य मासवरीसा य / भणिओ पलिया सागर उसप्पिणीसप्पिणीकालो // 12 // समयः-परमसूक्ष्मो, यस्य विभागो न भवति, आवलिका-असंख्यातसमयरूपा, मुहूर्त-घटीद्वयप्रमाणं, दिवसाः-त्रिंशन्मुहूर्तप्रमाणा अहोरात्रिरूपाः, पक्षाः-पञ्चदशदिनमानाः, प्रायिकं चेदं यतः शिवटिप्पनकानुसारेण कदाचित्तिथिहान्या चतुर्दशदिनप्रमाणः कदाचित्तिथिवृद्धया षोडश