________________ [19] जीवविचार वृ. जलयरउरभूयगाणं परमाऊ होइ पुवकोडिओ। पक्खीणं पुण भणिओ असंखभागो य पलियस्स // 37 // सव्वे सुहमा साहारणा य समुच्छिमा मणुस्सा य / उकोसजहन्नेणं अंतमुहुत्तं चिय जियंति // 38 // ___मुराणां नैरयिकाणां चोत्कृष्टा स्थितिः त्रयस्त्रिंशत्सागरोपमाणि भवन्ति, इयं चानुत्तरेषु सप्तमनरके च बोध्या / तथा लुप्तषष्ठीनिर्देशात् चतुष्पदतिरश्चां मनुष्याणां चोत्कृष्टा स्थितिः त्रिपल्योपमप्रमाणा इयं च देवकुर्बादौ ज्ञेया / इह पल्योपमसागरोपमे सूक्ष्माद्धाविशेषेण विशिष्टे ग्राह्ये / देवनारकाणां जघन्यायुर्दशवर्षसहस्रमानं बोध्यम् / नरतिरश्चां तु प्राग्वत् // 36 // जलचराणां गर्भजसमूच्छिमभेदाद्विविधानामुरगाणां भुजगानां च गर्भजानामेव परमायुरुत्कृष्टायुः पूर्वकोटि भवति / सप्ततिर्लक्षकोटयः षट्पश्चाशच्च सहस्रकोटयो वर्षाणि एकं पूर्वमुच्यते, ईदृक्कोटिपूर्वाणीत्यर्थः, तथा गर्भजपक्षिणां पुनरुत्कृष्टायुः पल्योपमस्यासंख्येयभागो भणित उक्तः / इह सूत्रे समूच्छिमस्थलचरखचरादिपञ्चेन्द्रियाणामुत्कृष्टायुनॊक्तं तद् ग्रन्थान्तरगतैतद् गाथाया बोध्यम् "समुच्छि पणिदि थलयर, खयर उरग भुयय जिटिइकमसो / वाससहस्सा चुलप्ती बिसत्तरी तिपन्न बायाला // 1 // " इति / [बृहत्संग्रहणी गाथा-२६३] सर्वे सूक्ष्माः पृथ्व्यप्तेजोवायुवनस्पतयश्च पुनः साधारणाः बादरनिगोदरुपा अनंतकायिकाश्च / पुनः संमूच्छिमा मनुष्या ये एकोसरशतक्षेत्रोत्पन्नगर्भजनराणां मलमूत्रवातादिषूत्पद्यन्ते ते सर्वेऽप्युत्कर्षण