________________ प्रकरणत्रयी शेवालं प्रसिद्धम् , भूमिस्फोटानि ग्रीष्मवर्षाकालभावीनि छत्राकाराणि, अल्लयतियत्ति-आईकत्रिकं आद्रिकं श्रृंगवेरं 1 आदी हरिद्रा 2 कवृकश्च तिक्तद्रव्यविशेषः 3, गर्नराणि प्रसिद्धानि, मुस्ता सूकरप्रिया, वत्थूलः शाकविशेषः स च प्रथमोद्गत एव, थेगः कन्दभेदः, पलंक: शाकविशेषः // 9 // तथा सर्व कोमलफलमवृद्धास्थिकं, गूढसिराणि अप्रकटसन्धीनि सिनादिपत्राणि सिनशब्देन देशविशेषे क्षारपीलवृक्ष उच्यते, थोहरी प्रसिद्धा, कुमारी मांसलप्रणाल्याकारपत्रा, गुग्गुलः प्रसिद्धः, गिलोयत्तिगडूचीवल्ल्याऽपि प्रसिदैव / एतेषु थोहरी-कुमारी-गुग्गुल-गडूचीप्रमुखाः साधारणवनस्पतयः छिन्नरुहा ज्ञेयाः, छिन्ना अपि पुनारोहंतीत्यर्थः / एते सर्वेऽप्यनन्तकायिकाः। एवमन्येऽपि वंश-करेल्लक-लवणवृक्षवगमृतवल्ली-कोमला-चाम्लिका-गिरिकर्णावल्लीप्रभृतयोऽनंतकायिकभेदाः ज्ञेयाः // 10 // ____ अथैतावंत एव अनंतकाया उताधिका इत्याशङ्कानिरासार्थमाहइच्चाइणो अणेगे, हवंति भेया अणंतकायाणं / तेसिं परिजाणणत्थं, लक्खणमेयं सुए भणियं // 11 // - एते सूत्रोक्ता एव भेदा न, किन्तु इत्यादयः अनेके अनंतकायिकानां भेदाः भवन्ति / तेषां परिज्ञापनार्थ एतल्लक्षणं श्रुते भणितम् // 11 // तदेव दर्शयतिगूढसिरसंधिपव्वं, समभंगमहीरुगं च छिन्नरुहं / / साहारणं सरीरं, तविवरीअं च पत्तेयं // 12 //