________________ 168 उपसंहारः इअ जीअनिसीहाई अणुसारेणं जईण पच्छित्तं / लेसेणं सपरट्ठा भणि सोहंतु गीअत्था // 306 // ___ व्याख्या- इति एवं प्रदर्शितप्रकारेण / जीतनिशीथाद्यनुसारेण / जीत-जीतकल्पः निशीथंकल्पाध्ययनम् , आदिशब्दात कल्पव्यवहाराध्ययनसामाचारीपरिग्रहः / एतेषां महाग्रन्थानामनुसारेण-अनुगमनेन, यथा एतेषु महाग्रन्थेषु प्रायश्चित्तं प्रतिपादित तथैवात्रापीत्यर्थः / यतीनां प्रायश्चित्तं लेशेन-अंशेन स्वपरार्थ-स्वपरहितनिमित्त भणितं-प्रतिपादितम् / इदं च यद्यपि परमागमानुसारेणैव भणितं तथापि गीतार्थाः श्रीनिशीथोदिछेदग्रन्थधारिणः शोधयन्तु-अपनयन्त्वत्र दूषणानि प्रमादादिजनितानि / अत्र च जीतकल्पसूत्रे पुरातनजीतकल्पसूत्रगता एव तद्रूपाः कियत्यो गाथाः सन्ति / कियत्यः पुनः श्रीनिशीथादिग्रन्थानुगतास्तद्रूपा एव / कियत्यस्तु श्रीनिशीथादिमहाग्रन्थगतार्थसार्थलेशलेशग्रहणेन प्रथिताः। कतिपयाः पुनः सुखप्रतिपत्त्यर्थं पुरातनजीतकल्पगतमुकुलितार्थविस्तारणेन विरचिताः, स्वल्पाः पुनः सुविहितजनाचीर्णजीतानुगतसामाचारीगताः / एतासां च गाथानां विवरणमपि प्रायस्तद्रूपमेव तत्तग्रन्वगतमत्र लिखितमस्तीत्यवगन्तव्यम् / इदं चैवंविधं जीतकल्पसूत्रं कालानुभावतः प्रायो निराधारपारमेश्वरप्रवचनाधारभूतैः निर्मलसयमकमलाहृदयालङ्कारहोरकल्पैः सकलसुविहितवातशिरोमणिभिः विश्वविख्यात-श्रीतपामहागच्छगगनाङ्गणनभोमणिभिः परमगुरु-श्रीसोमप्रभसूरिभिः पवित्रचारित्रैकतानमानसः मन्दतरमेधाधारणाधिगमविनेयजनानुग्रहार्थमेव अमुद्रसकलपरमागमसमुद्रमहाप्रयत्नेनावगाह्याऽमृतकल्पं प्रकटमकारीति // इति यतिजीतकल्पवृत्तिर्जगत्प्रतीतश्रीतपागच्छाधिराजसुविहितशिरोमणिभट्टारकप्रभुश्रीदेवसुन्दरसूरिशिष्यश्रीसाधुरत्नसूरिकृता // वर्षे तर्कशराब्धिचन्द्रगणिते 1456 श्रीविक्रमार्काद् गते गुर्वादेशवशाद्विलोक्य सकलाः कल्पादिशास्त्रावलीः / . सूरिश्रीयुतदेवसुन्दरगुरोः शिष्याग्रणीरातनोदेतां श्रीयतिजीतकल्पविवृति श्रीसाधुरत्नाह्वयः // प्रारुद्देशतो वृत्तौ ग्रन्थमानं विनिश्चितम् / सहस्राः पञ्च श्लोकानां शतैः सप्तभिरन्वितः / 5700 /