________________ गूढान्यपराधपदानि विपरिणाम्यन्ते / बालवृद्धौ च कारणदीक्षितो भवेताम् / यथाऽऽर्यवैरिस्वामी आर्यरक्षितपिता च / एतेषां च सर्वेषामपि पञ्चकाद्यया यतनया आहारादि गृहीत्वा समाधिहेतोर्दातव्यम् / पञ्चकादियतना चेयं-येन गृहीतेन पश्चकप्रायश्चित्तापत्तिर्भवति / तदपि तत्प्रायोग्यं सर्वविशुद्धप्रायोग्याऽलाभे ग्राह्यम् / तदभावे येन दशकापत्तिस्तदाप्यादेयम् / एवं यावदाधाकर्माऽप्यादोय तेषां समाधिरुत्पाद्यः / 16 / 'उदगि'त्ति / उदकप्रवाहो-नदीपूरादिः / 'अग्गि'त्ति / दावाग्निः / 'चोरि 'त्ति / चौरा द्विविधा-वस्त्राशुपधिहारिणः शरीरहारिणश्च पारसीकम्लेच्छादयः / 'सावय 'त्ति / श्वापदानि च सिंहसिन्धुरव्याघ्रादीनि / एतेषामन्यतरस्मात् सकाशाद् भये सति स्तम्भनविद्यया तं नदीपूरादिकं स्तभ्नीयात्, विद्याया अभावे पलायेत, पलायनाऽसमर्थश्च श्रान्तो वा सचित्तवृक्षमप्यारोहेन्न दोषः / 20 / तथा भयं धाटयादेः, तस्मिन् सति पलायमानः पृथिव्यादीन् विराधयेत् / 21 / 'कंतार 'त्ति / अरण्यानी, यत्र भक्तपानादिलाभो न सम्भवत्येव, तत्र यतनया कदल्यादिफलानि उदकादि वाऽप्रासुकमाददीत / 22 / 'आवइ 'त्ति / आपत्-द्रव्यक्षेत्रकालभावैश्चतुर्की / द्रव्यतः प्रासुकोदकाद्यलाभे, क्षेत्रतो दीर्घमध्वानं प्रतिपन्नानां, कालतो दुर्भिक्षादौ, भावतो ग्लानत्वादावापत् / तत्र किश्चिदकल्पिकं प्रतिसेवेत तथापि शुद्धः / 23 / 'वसण'त्ति / गीताद्यभ्यासो व्यसनम् / कोऽपि चारणादिः दीक्षितः स्यात् / स च गीतव्यसनतया गीतोच्चारं कुर्यात् / ताम्बूलव्यसनी वा प्रव्रजितो व्यसनितया पक्वशुष्कताम्बूलपत्रादिकं मुखे प्रक्षिपेत् / 24 / एषा कल्पिका द्वितीया प्रतिसेवना / गूढपदानि चामूनि . 'पढमस्स य कज्जस्सा पढमेण पएण सेविअंजं तु। पढमे छक्के अभि-तरं तु पढमं भवे ठाणं'। प्रथमस्य कार्यस्य-दर्पिकासेवनालक्षणस्य तद्भेदानां दर्पाऽकल्पनिरालम्बादीनां दशानां पदानां मध्यात् प्रथमेन पदेन-दर्पलक्षणेनासेवितं यत् / प्रथमे षटके-व्रतषट्काख्येऽभ्यन्तरम्-अन्तर्वर्ति व्रतषट्कान्तःपतितमित्यर्थः। प्रथमं प्रोणातिपाताख्यं भवेदतीचारस्थानमापन्नमित्येवं गूढपदेन प्राणातिपाताऽतिचारं निर्दिष्टवान् / 'एवं बीयं भवे ठाणं, तइअं भवे ठाण 'मित्यादिसर्वपदचारणिकाक्रमेणाशीत्यधिक 'शतमतीचारस्थानानां जायते / तथा बीअस्स य कज्जस्सा पढमेण पएण सेविअंजं तु / पढमे छक्के अभि-तरं तु पढमं भवे ठाणं'। द्वितीयस्य कार्यस्य-कल्पिकाऽऽसेवनाख्यस्य तद्भेदानां दर्शनादीनां चतुर्विशतिसङ्ख्यानां मध्यात् प्रथमेन पदेन दर्शनाख्येन दर्शनप्रभावनारूपेणाऽऽसेवितं यत् / उत्तरार्द्ध प्राग्वत् / अत्रापि सर्वपदचारणिकाक्रमेण चत्वारि शतानि द्वात्रिंशदधिकान्यतिचारस्थानानि जायन्ते / उभयरोशिमेलने षट्शतानि द्वादशोत्तराणि / एतेषां च परिज्ञानायेदं यन्त्रकद्वयम् / // दर्पयन्त्रकम् // .