________________ लघुकपक्षे. दानतपः 145 इअ दसमट्ठमछठा अट्ठमछट्ठाचउत्थया कमसो / छट्टचउत्थायामा लहुपक्खे दाण वासासु // 264 // व्याख्या- लघुपक्षे लघुमासाख्योत्कृष्टापत्तो उत्कृष्टोत्कृष्टं दशमम् / उत्कृष्टमध्यममष्टमम् / उत्कृष्टजघन्य षष्ठं / मिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टमष्टमं / मध्यममध्यमं षष्ठं / मध्यमजघन्यं चतुर्थ / विंशत्याख्यजंघन्यापत्तो जघन्योत्कृष्टं षष्ठं / जघन्यमध्यमं चतुर्थं / जघन्यजघन्यमाचामाम्लम् / इत्यमुना प्रकारेण लघुपक्षे क्रमेण दानतपो नवविधमुक्तम् / एतच्च दानतपो वर्षाखवगन्तव्यं / पूर्वगाथोक्तमपि अप्रेतनगाथोक्तमपि च / अथ लघुकपक्षे दानतपो दर्शयतिअट्ठमछट्ठचउत्थं छट्टचउत्थंबिलं लहुसपक्खे। तह खवणंविलआसण इअ अद्भुकंति सगवीसा // 265 / / व्याख्या-लघुकपक्षे पञ्चदशाख्योत्कृष्टापत्तौ उत्कृष्टोत्कृष्टमष्टमम् / उत्कृष्टमध्यमं षष्ठम् / उत्कृष्टजघन्यं चतुर्थ / दशकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठं / मभ्यममध्यमं चतुर्थं / मध्यमजघन्यमाचामाम्लं / पञ्चकाख्यजघन्यापत्तौ जघन्योत्कृष्टं चतुर्थ / जघन्यमध्यममाचामाम्लं / जघन्यजघन्यमेकासनकमित्येवमर्धीपक्रान्त्या सप्तविंशतिविधं दानतपो वर्षाविषयं प्रदर्शितम् / / अथ शिशिरीष्मविषयं दानतपोऽतिदेशेनाहदसमाई पुरिमंता सिसिरे गिम्हट्ठमाइ निविअंता / असहे इक्किकहासो जा पंतिसु अंति इक्विकं // व्याख्या-एवं यथा वर्षासु उस्कृष्टायापत्तिनवके सति दानतपसो द्वादशमादौ कृत्वा एकासनान्ताः सप्तविंशतिर्भेदावारणिकया कृताः, तथा शिशिरेऽपि, केवलं सममादौ कृत्वा पुरिमार्द्धान्ताः। ग्रीष्मे पुनरष्टममादौ कृत्वा निर्विकृत्यन्ताः सप्तविंशतिर्भेदाः कार्याः यन्त्रकस्थापनातश्च क्षेयाः / वर्षाशिशिरग्रीष्माणों सप्तविंशतित्र्यसीलने चकाशीतिर्दानतपसो भेदा भवन्ति / अर्धपक्रान्तिश्चेयं-अर्द्धस्यअसमप्रविभागरूपस्य एकदेशस्य-एकादिपदात्मकस्यापक्रमणं-निवर्तनं शेषस्य तु द्वथादिपदसंघातात्मकस्यैकदेशस्यानुवर्त्तनं यस्यां रचनायां सा समयपरिभाषया अर्द्धापक्रान्तिरुच्यते / यथा वर्षासु गुरुतमे उत्कृष्टतो द्वादशमं, मध्यमतो दशमं, जघन्यतोऽष्टमम्, एषां मध्यादेकदेशो द्वादशलक्षणोऽपक्रामति, दशमाष्टमे गुरुतरं गच्छतः अप्रेतनं च षष्ठं मील्यते / ततश्च गुरुतरे उत्कृष्टतो दशमं, मध्यमतोऽष्टमं, जघन्यतः षष्ठम् / एषां मध्यादेकदेशो दशमलक्षणो निवर्त्तते अष्टमषष्ठे गुरुकं गच्छतः अग्रेतनं चतुर्थ मील्यते / ततश्च गुरुके उत्कृष्टतोऽष्टमं मध्यमतः षष्ठं जघन्यतश्चतुर्थमिति / यथा चेयमेकाशीतिके दानतपोयन्त्रके वर्षाद्ये नवकेऽ पक्रान्तिर्दर्शिता, तथैव सर्वेष्वपि नवकेषु विलोकनीया / एतैर्दानैरापत्तयः स्वकाः स्वका नियमात् सर्वा बोद्धव्याः / एवंविधापत्तिषु च द्वादशायं तपः कर्तुमसहिष्णोरेकैकहासः तावत् कार्यो यावन्नवस्वपि पङ्क्तिषु पर्यन्तकोष्टकगतमेकैकं चतुर्थादि निर्विकृतिकान्तं तपः स्थितं / ततः तत् तस्य दीयते // तत्करणेऽप्यशक्तस्य पुनस्तथैव हासो भवतीति दर्शयतिअसहस्स तं पि हसई तो सट्ठाणउ दिज्ज परट्ठाणे / इअ हिट्ठमुहे हासे निव्वीअं ठाइं सुद्धो वा // 267 //