________________ यन्त्रकालिखनविधिः 139 त्रयाणामपि परिहारोऽवसेयः / कृतिकर्म-ज्येष्ठानुक्रमेण वन्दनदानम् / व्रतानि-पञ्च महाव्रतानि / ज्येष्ठो वर्षशतदीक्षिताया अपि साध्च्या अद्यतनदीक्षितोऽपि साधुर्गरियान् / प्रतिक्रमणं प्रतीतम् / मासो-मासकल्पः / परिः-सर्वथा वसनमेकत्र निवासो निरुक्तिवशात् पर्युषणा | इत्येतस्मिन् दशविधे कल्पे स्थिताः प्रथमचरमजिनसाधवस्ते आदयो-अवयवभूता येषां ते कल्पस्थितादयः-कल्पस्थितपरिणतकृतयोगितरमाणाख्याः / तत्र कल्पस्थिताः कथिता एव / परिणताः-परिणतिपरिपाकमापन्नं जीवेन सह प्राप्तकीभावं चारित्रं येषां ते / कृतयोगिन:-चतुर्थषष्ठाटमादितपोभिः परिकामतशरीराः / तरमाण त्ति / 'शकेश्चयतरतीरपारा' इत्यनेन प्राकृतलक्षणसूत्रेण शक्तृधातोस्तरदेशे कृते शक्नुवानाः-शक्तितुलना कुर्वाणा इत्यर्थः / ये एते चत्वारः सेतराः-सप्रतिपक्षाः समाख्याताः-कथिताः / कल्पस्थितादिभ्य इतरे अकल्पस्थिताऽपरिणताऽकृतयोगाऽतरमाणोख्याः / तत्र अकल्पस्थिता-मध्यमद्वाविंशतिजिनसाधवो महाविदेहजाश्च / एते हि दशविधस्थितिकल्पमध्यात् शय्यातरपिण्डाऽनादानचतुर्यामपुरुषज्येष्ठत्वकृतिकर्मकरणाख्येषु चतुषु स्थिताः शेषेषु षट्सु पुनरस्थिताः / ते ह्येतानि षट् स्थानानि गुणानुलोम्यमालोच्य कदाचित् कानिचित् कुर्वन्ति वा नवेति / अपरिणतोदयस्तु परिणतादिविपरीताः। 'साविक्खेअरभेआदओ अ जे' इति / जे इति पादपूरणे / कल्पस्थिताकल्पस्थितादयोऽष्टावपि द्विविधाः। सापेक्षागच्छवासिनो निरपेक्षा-जिनकल्पिकादयः / 'ताण पुरिसाणं'तीत्यप्रेतनगाथायां सम्बध्यते / सा चेयं__ जो जहसत्तो बहुरगुणो व तस्साहिअंपि दिजाहि / हीणस्स हीणतरगं झोसिज्ज व सव्वहीणस्स / / तेषां पुरुषाणां कल्पस्थितादोनो सापेक्षनिरपेक्षभेदानां प्राग्गाथाद्वयोक्तगीतार्थादीनां च मध्यात् यो यथाशक्तः तपः कर्तुं क्षमः / बहुतरगुणो वा-धृतिसंहननसम्पन्नः परिणतः कृतयोगी आत्मपरतरो वा भवेत् तस्याधिकमपि-जीतोक्तादतिरिक्तमपि दद्यात् / हीनस्य-धृतिसंहननादिरहितस्य हीनतरं-जीतोक्तादल्पतरं दद्यात् / सर्वहीनस्य-सामस्त्येनाक्षमस्य सर्वमपि तपः क्षपयेत्-हासयेत् न किमपि तस्य दद्यात् मिथ्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थः। पुनः पुरुषविशेषानेवाह इत्थं पुण बहुतरगा भिक्खुण ठिय अकयकरणाणभिगया य। जं तेण जीअमटुमभत्तंतं निविगाईअं॥ अत्र पुनर्बहुतरा-बहुभेदा आचार्योपाध्यायकृवकरणगीतार्थस्थिराद्या भिक्षवः-साधवः इति / स्थिग नाम ये चरकादिभिर्दर्शनतः परीषहोपसर्गेश्वरणतोऽतिकर्कशप्रायश्चित्तदानतः स्वभावतो वा न च्याव्यन्ते / अकृतकरणाः-तपोभिरपरिकर्मितशरीराः / अनभिगताश्चागीतार्थाः चशब्दादस्थिराः / एतेषां च सर्वेषां यथार्ह, तेन सूक्ष्मबादरातिचारादिना यज्जीतं-जीतदानं तन्निर्विकृत्याद्यष्टमभक्तान्तं ज्ञेयमिति शेषः / यद्वा यन्त्रणतद् ज्ञेयमित्यर्थः / इदमत्र गाथान्ते यन्त्रकस्य पश्चम्या दीर्घपङक्तेः पश्चिमानुपूर्ध्या तपो गृहीतम् / एतदीयश्च तपोविशेषः सर्वोऽपि यन्त्रकेण स्पष्टीभवति / ततस्तस्यायं लिखनविधिः कथ्यतेइह देर्येण पङ्क्तिरचनायां त्रयोदश गृहाणि स्थाप्यन्ते, पृथुत्वेन चाद्यपंक्तौ पञ्चदश गृहाणि / द्वितीयतृतीयपङ्क्त्योश्चतुर्दश / चतुर्थपञ्चमपङ्क्त्योस्त्रयोदश / षष्ठसप्तमपङ्क्त्योदश / अष्टमनवमपङ्क्त्योरेकादश / दशमैकादशपङ्क्त्योर्दश / द्वादशत्रयोदशपङ्क्त्योर्नवगृहाणीति / अत्र चाद्यायाः पृथुपङ्क्तरुपरि निरपेक्षः स्थाप्यते / द्वितीयाया उपर्याचार्यः कृतकरणः / तृतीयाया आचार्योऽकृतकरणः / चतुर्या उपाध्यायः कृतकरणः / पञ्चम्या उपाध्यायोऽकृतकरणः / षष्ठ्या गीतार्थः स्थिरः कृतकरणभिक्षुः /