________________ 129 चारित्राधारातिचारप्रायश्चित्तम् जइ एगभाणजिमिआ गिहिणो वि हु दीहसोहिआ हुंति / जिणवयणबाहिरा वि अ धम्मं पुण्णं अयाणंता / / किं पुण जगजीवसुहावहेण संभुजिऊण समणेणं / सक्का हु इकमिक्के रक्खिउ जह अप्पणो देहो / / अशिवादिकारणैः पुनः स्थानाऽदानेऽपि न दोषः / तथापुरिमचरिमासु पत्तादपेहि सज्झायअकरणे लहुगा / नियमे चेइअवंदणि संघस्स अखामणे गुरुगा // ___ व्याख्या-प्रथमचरमपौरुष्योः पात्राद्यप्रत्युपेक्षणे-पात्रकस्य, आदिशब्दात् मात्रकादेरप्रतिलेखने स्वाध्यायाकरणे च चतुर्लघुकाः। नियमे सति चैत्याऽवन्दने सङ्घस्य चतुर्विधस्याप्यक्षामणे च चतुर्गुरुकाः। तथाबिट्ठपडिकमणि लहुगा गुरुगा निकारणोवविठ्ठस्स / पडिकमणाकरणे थुक्माइपयघट्टणे गुरुगा // व्याख्या-उपविष्टः सुप्तो वा यदि प्रतिक्रमणं करोति तदा चतुर्लघुकाः / निष्कारणोपविष्टस्य चतुर्गुरुकाः। तथा सर्वस्यापि प्रतिक्रमणस्याकरणे चतुर्गुरुकाः / तथा गुरोः-आचार्यादेः थुकादिलगने थुक्क लेष्मादिलगने पदेन घट्टने चतुर्गुरुकाः / / लहु अप्पे वि हु तलि अंधकारगमि जीणमाइपरिभोगे / तुंबाइबीअवणयणि पडिक्कमणे चिइअवंदणए / व्याख्या-अल्पेऽपि तलिकापरिभोगेन गमने, अल्पेऽप्यन्धकारगमने, जीणं-जयनं तच्च प्रतीतमेव, आदिशब्दादन्यदपि तथाविधं दुष्प्रतिलेख्यं गृह्यते, तस्य परिभोगे, तुम्बादीनामलाबूदङ्कादीनां बीजापनयने, भाजनार्थं जिघृक्षया गृहस्थादिभिर्बीजनिष्कासने, प्रतिक्रमणे-प्राभातिकप्रादोषिकप्रतिक्रमण मध्ये चेत्याऽवन्दने च / एतेष सर्वेष्वपि प्रत्येक लघमासः॥ तथा दिवसनिसि पढमचरिमे चउनिद्दासेवणे लहू मासा / आणऽणवत्थुड्डाहो विराहणा निद्दवुड्ढी अ॥ व्याख्या - दिवसस्य चतुर्ध्वपि योमेषु, निशायाः पुनः प्रथम चरमे वा यामे चतस्रो निद्राःनिद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचलालक्षणाः तासामासेवने प्रत्येकं लघुमासः / निद्रायां द्वाभ्यां लघुः / अतिनिद्रायां कालगुरुः / प्रचलायां तपोगुरुः / अतिप्रचलायां द्वाभ्यामपि गुरुः / निद्रां कुर्वतां चेमे दोषाः- भगवता प्रतिषिद्धे काले स्वपता आज्ञाभङ्गः कृतो भवति / आज्ञाभङ्गे च चरणभङ्गो, यतो भणितम्'आणाइ चिअ चरणं तब्भंगे जाण किं न भग्गं तु ?' | एकः प्रतिषिद्धकाले स्वपिति, अन्योऽपि तं दृष्ट्वा स्वपितीत्येवमनवस्था भवति / दिवा शयानोऽसंयतैदृष्टस्ततस्ते चिन्तयन्ति-यथा एष निक्षिप्तस्वाध्यायध्यानयोगः स्वपिति तथा एष लक्ष्यते रात्रौ रतिक्लान्तः, एवमुडाहो भवति / विराधना सुप्तस्याग्निप्रदीपने दाहेन, निद्रावृद्धिश्च भवति / यत उक्तम् ___ वर्द्धन्ते पश्च कौन्तेय ! सेव्यमानानि नित्यशः / आलस्यं मैथुनं निद्रा क्षुधा क्रोधश्च पञ्चमः // स्यानद्धिनिद्राप्रायश्चित्तं त्वग्रे पाराश्चिकप्रायश्चित्ताधिकारे भणिष्यते / एवमत्र 'वयछक्कायछक्क'मित्यादि