________________ 14 किञ्चिद् विज्ञापनम् सागरमरिपादानां सविधे / एभिः सरिसत्तमैर्विहारावस्थायामपि यावच्छक्यं पाठस्थलच्छायादिभिः सङ्कलय्य संशोधितानि तानि पत्राणि / 240 पृष्ठेषु तु मुद्रितेषु एवंविधमपि साहाय्यं दत्तुमसमर्था अभूवन् सरिवरा विहारादिव्यग्रचित्ताः। तथापि संशोधनकर्मणि स्वसौजन्यख्यापकेन यावता साहाय्यदानेनानुगृहीतोऽस्मि तावता तेभ्यो ददामि शतशो हार्दिकान् धन्यवादान् / अपरञ्चावशिष्टस्य विभागस्य संशोधने मुख्यत्वेनोपकर्तृणां दक्षिणविहारिमुनिवरश्रीअमरविजयशिष्यश्रीचतुरविजयानां नामधेयं कीर्तयाम्यनेकशः। . अत्रेदमपि निवेदनमावश्यकं यद् १०४पृष्ठमुद्रणानन्तरं प्रकाशकेनान्यत् प्रतियमलं मामदायि / तत्र एका च-संज्ञका प्रतिः अमदावादस्थडहेलेतिनामकोपाश्रयभाण्डागारसत्का, ज-संज्ञका तु एतदपेक्षया प्राचीना कतिपयजीर्णपत्रमया 'जैनानन्दपुस्तकालय'.' सत्का यत्सहायतया ग-प्रतिलिखितेति मां प्रतिभाति / एतत् प्रतियुगलमभूत् किमप्युपयुक्तं सन्देहनिराकरणावसरे / छ-सञ्ज्ञप्रतिरुपाध्यायानां न्यायतीर्थन्यायविशारदेतिपदवीद्वयविराजितॄणां श्रीमङ्गलविजयानां यदुपयोगः क्वचिदेव कृतोऽत्र मया / अन्तेऽस्य 20680 श्लोकप्रमाणकस्य ग्रन्थस्य प्रकाशनेन जैनतत्त्वजिज्ञासूनां प्राच्यपाश्चात्यविपश्चितां साहाय्यकारिणः, मदीयसूचनानुसारेण प्रो. यकोबी-विन्टर्निटस् लॉयमेन्गरिनोप्रमुखविद्वद्वरेभ्योऽग्रवचनरूपां प्रस्तावनासम्बन्धिनी वा लेखसामग्री विज्ञप्तिपत्रद्वारा याचमानस्य च श्रेष्ठिप्रवरस्य श्रीयुतसाकरचन्द्रात्मजजीवनचन्द्रस्य प्रयासमिममनुमोदयन् , ग्रन्थस्य द्वितीयस्यापि विभागस्य शुद्धिपत्रकस्य विधातृणां न्यायव्याकरणतत्त्वज्ञानविषयकनानाग्रन्थप्रणेतृणां उपाध्यायश्रीमङ्गलविजयानां कृतज्ञतापूर्विकामुपकृति संस्मरन् कृपापीयूषपाथोधिभ्यो विवेकविचक्षणेभ्यः स्खलनासम्बन्धिनी च क्षमा याचमानो विरमाम्यस्माद् विज्ञापनाप्रस्तावाद् विबुधवृन्दारविन्दमकरन्देन्दिन्दरो हीरालालः।