________________ शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिविनेयरत्नानां न्यायतीर्थन्यायविशारदपदसमलङ्कृतानाम् उपाध्यायश्रीमङ्गलविजयानाम् अभिप्रायः। --book-- नमो नमः श्रीप्रभुधर्मसूरये / अयि भाग्यवन्तः सज्जनमहोदयाः ! आर्यावर्तेऽस्मिन् प्राक्काले चतुर्थारकलक्षणेऽनेके महात्मानः स्वपरदर्शने सञ्जातास्तथाऽस्मिन् पञ्चमारकेऽपि बहवः स्वपरदर्शनज्ञाः समभूवन् , दर्शनान्यपि पोढा मुख्यतया प्रचलितानि / अपि च तैः सर्वैर्दर्शनकारमहानुभावैः स्वकीयखकीयदर्शने यानि यानि तत्त्वान्यभिमतानि सन्ति तत्प्रतिपादकानि शास्त्राण्यपि खानुकूलयुक्तियुक्तानि निपुणबुद्धिशालिगम्यानि निरूपितानि / अधुनाऽपि विद्यन्ते तेषां समस्तानां महाशयानां प्रधानतयोद्देशस्तु मोक्षनिरूपणविषयक एव / किश्च तैर्निरूपितं शास्त्रं पूर्णमपूर्ण वेति न चर्च्यतेऽप्रस्तुतत्वात् , परन्तु तेषां मध्ये गीर्वाणगिरायां जैनदर्शनविषयक श्रीउत्तराध्ययनभगवतीप्रभृतिसूत्रग्रन्थरत्नेभ्यः पूज्यपादभगवदुमास्वातिमहर्षिणा सङ्ग्रहीतं तत्त्वार्थसूत्राख्यं शास्त्रे खोपज्ञभाष्ययुक्तं यदाऽऽलोकितं तदा निर्णायीदमेव शास्त्रं सम्पूर्णतया मोक्षमागेनिरूपणपरम् / अत्र प्रतिपादकशैल्यपि अतीव गम्भीरा मुमुक्षोमुक्तिमार्गस्याश्वाश्वासनीभूतार्थाद् विश्वासाधायिनी / अत्रत्यः क्रमोऽपि योऽपूर्वो वर्तते सोऽपि स्पष्टतया प्रदर्श्यते ___ अस्य दशाध्यायात्मकस्य शास्त्रस्योत्थानभूतं सम्पूर्णतया मोक्षमार्गप्रदर्शकं महामङ्गलस्वरूपं प्रथमाध्यायस्य प्रथम सूत्रम्-"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इत्येव प्रथममुपन्यस्तम् / किञ्च दर्शनान्तरे तु न तादृशः क्रमः, किन्तु ज्ञानमेव केवलं मोक्षसाधकं प्रज्ञप्तम् / यदि च क्रियां विनाऽपि ज्ञानादेव केवलाद् मोक्षप्राप्तिः स्यात् तर्हि समग्रोऽष्टाङ्गयोगप्रकारो व्यर्थः स्यात्, तसात पूर्णश्रद्धापूर्वकज्ञानचारित्रद्वारा एव मोक्षप्राप्तिरित्युपर्युक्तो मार्ग एव मोक्षसाधकः स्यामापरः। किश्चैतत् सूत्रमवलम्ब्यैव सकलं शास्त्रं प्रवृत्तम्, अर्थादिदमेव सूत्र सम्पूर्णशास्त्रविरचने वीजभूतम् / . अधुना विषयविभागोपर्यपि दृष्टिपातः क्रियते / तथाहि-तावत प्रथमाध्याये सम्यगदर्शनज्ञानयोनिरूपणावसरेऽत्रात्यन्तोपकारिजीवतत्त्व-नय-निक्षेप-प्रमाणप्रभृतीनामपि निरूपणमस्यन्तगम्मीररूपेण कृतम्, अर्थात् शब्दतः सक्षेपतयाऽर्थतो विशदरूपेण निरूपणमकारि। . द्वितीयेऽध्याये जीवानां स्वतत्त्वरूपीपशमिकादिभावपञ्चकानां व्याख्यानं जीवस्वरूपप्रदर्शनपूर्वक तथेन्द्रियाणां द्रव्यभावमेदपूर्वकनिरूपणसहकृतजन्मयोनि-शरीरपञ्चकानामपि प्ररूपणं सम्यक्तया कृतम् / तृतीये नरकस्थानभूतनरकावास-नरकसङ्ख्यानिर्देश-जम्बूद्वीपस्थमेरुभरतादिक्षेत्रप्ररूपणापुरस्सरद्वीपसमुद्रपरिधिप्रभृतीनां निरूपणेन सह मनुष्यतिरश्चामपि स्पष्टरूपेण भेदनिरूपणं कृतम् /