________________ प्रस्तावना श्रीसिद्धसेनगणीनां समयः श्रीसिद्धसेनगणीनां परिचये स्वनिर्मिततत्त्वार्थटीकाप्रशस्तिः साधनम् / परन्तु तत्र तेषां तद्गुर्वादीनां वा समयनिर्देशात्मक उल्लेखो न विद्यते / एवं सति टीकानिरूपणेनैव तेषां समयस्य निर्णयः कथञ्चित् भवेत् / तत्र निर्दिष्टग्रेन्थावतरणादीनां मूलस्थलानामवगमने मार्गः सरलः स्यात् / एभिर्वसुबन्धु-धर्मकी|दिविदुषां नामधेयान्युल्लिखितानि / धर्मकीर्तेः समयः सप्तमा शताब्दी। अनेनेदं स्फुटं भवति यदुतैते नैतेषां पूर्वगामिनः / यद्यपि हिमवन्तपट्टावल्यांद्याधारैण श्रीसिद्धसेनगणयः श्रीगन्धहस्तिभ्यो भिन्ना इत्यवगम्यते तथापि पण्डितसुखलालाभिप्रायो यदि स्वीक्रियते तर्हि श्रीआचाराङ्गटीकायां तत्प्रणेतृभिः श्रीशीलाङ्कसूरिभिः कृताभ्यामुल्लेखाभ्यामेतेषां सत्ता नवमशताब्दीतो पूर्विकेत्यनुमीयते। सङ्ख्यावन्त इतिहासज्ञा निर्णय करिष्यन्तीति तेभ्यः प्रार्थयामि सहृदयसाक्षरकृपाकानी हीरालालः। 1-3 प्रन्थसूचीविशिष्टनरनगरादिसूचिरवतरणानामकाराद्यनुकमश्च मया रच्यमाना वर्तन्ते, परन्तु प्रकाशनविलम्बनसहनाक्षमेण प्रकाशकेनात्र तन्मुद्रापणं दुःशकं भाति / 4 तर्करहस्यदीपिकायाः ८१तमे पत्रेऽयमुल्लेख: __यथोक्तं श्रीगन्धहस्तिना महातकें-द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिभ्या।" 'तदुक्तं च प्रवचने ' इत्युल्लेखपुरस्सरेयं पतिरवतरणरूपेणावतारिता श्रीदेवगुप्तसूरिभिस्तत्वार्थटीकायां द्वितीये पृष्ठे / यदीयं सन्दब्धा पण्डितसुखलालमतानुसारेण श्रीगन्धहस्तिभ्योऽभित्रैः श्रीसिद्धसेनगणिभिस्तर्हि श्रीदेवगुप्तसूरयः एतत्पूर्वानुगामिनो नेत्यनुमीयते। इयं पतिः श्रीसिद्धसेनगणिगुम्फिततत्त्वार्थटीकायां न दृश्यते मया / कदाचित् सत्यामपि श्रीगन्धहस्तीति नामपूर्वकाणां विविधानां निर्देशानामत्र सर्वाङ्गीणसादृश्याभावेन श्रीसिद्धसेनगणयः श्रीगन्धहस्तिभ्यो भिन्ना इति मे मतिः। अपरश्च सम्बन्धकारिकाटीकाप्रारम्भगतेन तृतीयेन पद्येनानुमीयते यदुतैतडीकाया विस्तृततरा अपि कतिपया विवृतय शासन् / तासु विशालतमकाया विवृतिः श्रीगन्धहस्तिप्रणीता स्यादिति मां भाति / निर्णयात्मकनिर्देशकरणे तु विशेषज्ञा अलम् /