________________ प्रस्तावना श्रीदेवगुप्तसूरिविचार: यद्यपि द्वितीये विभागेऽस्मिन् न कोऽपि सम्बन्धः साक्षात् समस्ति श्रीदेवगुप्तसूरिप्रस्तावस्य तथापि प्रथमविभागगतसम्बन्धकारिकाप्रणेतृत्वपरिचयप्रकाशनपटु किमपि वक्तव्यं नासङ्गतिमङ्गति / संशोधनार्थ मया समासादितासु सर्वासु तत्त्वार्थाधिगमसूत्रप्रतिषु श्रीदेवगुप्तीया टीका श्रीसैद्धसेनीयायाः पूर्वमुल्लेखिता दरीदृश्यते / तत्र केनापि कारणेन भवितव्यमिति तर्के सति प्रतिभाति विकल्पोऽयं यदुत श्रीदेवगुप्तसूरयः श्रीसिद्धसेनसूरिभ्यः पूर्वगामिनो ज्यायांसो वा भवेयुः / अथवैतैः प्रणीतायाष्टीकायाः सम्बन्धकारिकाटीकाया एवोपलब्धिः पूर्वोल्लेखने कारणं भवेत् / गन्धहस्तिपदपरामर्शः' गन्धहस्तिपदमुपलभ्यते श्वेताम्बरीये दिगम्बरीये च साहित्ये / तावत् प्रथमं श्वेताम्बराणां साहित्य लक्ष्यीकृत्य किञ्चिदुच्यते / शक्रस्तवेत्यपरनामधेये 'नमोत्थुणं'नाम्नि प्राचीने स्तोत्रे 'पुरिसवरगन्धहत्थीण' इति परमकारुणिकचतुस्त्रिंशदतिशयधारिधर्मदेवश्रीतीर्थङ्करस्य विशेषण विद्यते, परन्तु न चास्यात्र किमपि विशिष्टं प्रयोजनं वर्तते / वृद्धवादिश्रीदेवसूरिशिष्यरत्नश्रीसिद्धसेनदिवाकराणां गन्धहस्तिरूपेणोल्लेखोऽकारि न्यायाचार्यन्यायविशारदमहामहोपाध्यायश्रीयशोविजयगणिभिः स्वनिर्मिते वीरस्तुतिरूपे न्यायखण्डखाये (श्लो. 16, पृ. 16) निम्नलिखितपङ्क्तिप्रणयनेन "अनेनैवाभिप्रायेणाह गन्धहस्ती सम्मतौ" किन्तु भ्रान्तिमूलकोऽयमुल्लेख इत्यवगम्यते, यतः श्रीयशोविजयान् विहाय न केनापि ग्रन्थकारेण श्रीसिद्धसेनदिवाकराणां विषये तेषां सुनिश्चितां काञ्चन कृतिं तद्गतावतरणसमुद्धरणप्रसङ्गं वाऽऽश्रित्य 'गन्धहस्तीति विशेषणं प्रायुञ्जि / अपरश्च श्रीसिद्धसेनदिवाकराणां जीवनवृत्तान्तस्य ये प्राचीना अर्वाचीनाश्च प्रबन्धाः सम्प्राप्यन्ते तत्रापि तेषां पदवीरूपेण उपनामरूपेण वा गन्धहस्तिपदं न दृष्टिपथमवतरति / तेषां दिवाकरेत्युपाधिस्तु दरीदृश्यतेऽन्यान्यस्थलेषु, यथाहि-श्रीहरिभद्रसूरिवरकृते पञ्चवस्तुनामके ग्रन्थे (गां. 1048) सन्मतितस्य श्रीअभयदेवमूरिकृतायां व्याख्यायां च प्रथमे पृष्ठे / किश्च गन्धहस्तिनामधेयाः केऽपि सरय आसन्नित्यनुमीयते जम्बुद्धीपप्रज्ञप्तेः श्रीशान्तिचन्द्रवाचकविहितप्रमेयरत्नमञ्जूषाऽभिधवृत्तिगतेन निम्नलिखितेन पद्येन 1 एतत्सम्पादकमतेन 'सम्मति' नाम वास्तविकम् / 2 श्रीभद्रेश्वरविरचितकथावलीगतः श्रीसिद्धसेनप्रबन्धः, प्रभावकचरित्रगतो वृद्धवादिप्रयम्धार्तर्गतः श्रीसिद्धसेनप्रबन्धः, प्रबन्धचिन्तामणिगतः श्रीसिद्धसेनप्रबन्धश्च / 3 "आयरियसिद्धसेणेण सम्मईए पइटिअजसेणं / दूसमणि दिवागर'कप्पत्तणओ तदक्खेणं // " "सिद्धसेनदिवाकरः तदुपायभूतसम्मत्याख्यप्रकरणे."