________________ गुणस्थानेषु बन्धहेतवः [4 तस्य क्रिया सम्भवतीति वक्तु शीलानामक्रियावादिनां चतुरशीतेरः, अज्ञानेन चरतामज्ञानप्रयोजनानां वाऽज्ञानिकानां सप्तषष्टेः, विनयेन चरतां विनयप्रयोजनानां वा वैनयिकानां द्वात्रिंशतश्च, मीलनेन त्रिपष्टयधिकं शतत्रयविधम् / तत्र जीवाजीवपुण्यपापाश्रवसंवरनिर्जरावन्धमोक्षाभिधाना नवपदार्थाः, स्वपरभेदाभ्यां क्रमेण काले-श्वरा-ऽऽत्म-नियति-स्वभावभेदान्त्रिताभ्यामस्तित्वेन चिन्त्यमाना अशीत्युतरं शतं विकल्पानाविर्भावयन्ति / अस्ति जीवः स्वतो नित्यः कालतः 1, तथास्ति जीवः स्वतोऽनित्यः कालतः 2, इति स्वतो भङ्गद्वयम् / एवं परतोऽपि भङ्गाद्वयम् / सर्वेऽपि चत्वारः कालेन लब्धाः। एवमीश्वरादिभिश्चतुर्भिरपि प्रत्येकं चत्वारो लभ्यन्ते / ततः पञ्चभिश्चतुष्कविंशतिर्जाता। सा च जीवपदेन लब्धा / एवम-ऽजीवादिभिरष्टाभिः पृथग्विशतिर्लभ्यत इति नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवति / तथा जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षाभिधानाः सप्त पदार्थाः स्वपरभेदाभ्यां प्रत्येकं कालेश्वरात्मनियतिस्वभावयदृच्छासम्बन्धिताभ्यां नास्तित्वेन चिन्त्यमानाश्चतुरशीतिविकल्पान्जनयन्ति / यथा नास्ति जीवः स्वतः कालतः, 1, नास्ति जीवः परतः कालत इति द्वौ / एव मीश्वरादिभिः पञ्चभिः प्रत्येकं द्वौ द्वौ लभ्येते / सर्वेऽपि द्वादश / एते च जीवादिसप्तकेन गुणिताश्चतुरशीतिरक्रियावादिनाम् / तथा जीवादयो नव पदार्थाः सन् 1, असन् 2, सदसन् 3, अवक्तव्यः 4, सदवक्तव्यः 5, असदवक्तव्यः 6, सदसदवक्तव्यः 7, इत्येतैः सप्तभिः प्रकारे ते ज्ञातु शश्यन्ते / ज्ञातेर्वा किमेभिः प्रयोजनमिति बुद्धया व्यासितेस्त्रिषष्टिमाज्ञानिकानां भेदान्प्रसुवते / यथा सत्र जीव इति को वेत्ति किंवा तेन ज्ञातेन प्रयोजनम् / असन् जीव इति को वेत्ति किं वा तेन ज्ञातेन प्रयोजनमित्यादयः सप्त जीवेन लब्धाः / एवमजीवादिभिरपि सप्तभिः पदैः प्रत्येक सप्त लभ्यन्त इति नव सप्तकास्त्रिषष्टिः। एतन्मध्ये चामी चत्वारः क्षिप्यन्ते / यथा सती भावोत्पत्तिरिति को वेत्ति किं वा तया ज्ञातया / एवमसती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति किंवा ज्ञातयेति सर्वत्र योज्यते / सदवक्तव्यादिकं तु विकल्पत्रयमुत्तरं कालं भावावयवाऽपेक्षम् , अतोऽत्र न सम्भवतीति नोक्तम् / इत्थं च सप्तभङ्गी सूत्रकृदादिवृत्त्यनुवृत्त्या दर्शिता / विशेषावश्यकादौ त्ववक्तव्य इति तृतीयेन सदसन्निति चतुर्थेन भङ्गेन सेति / तदेवं सप्तषष्टिराज्ञानिकानां भवति / सुरनृपतियतिजातिस्थविरावममातृपितृणामष्टाणां स्थानानां प्रत्येकं कायेन वचसा मनसा दानेन च विनय इत्यष्टभिश्चतुष्फैात्रिंशद्वैनयिकभेदाः सर्वेषां च मीलनेन त्रिषट्यधिकशतत्रयविधं मिथ्यात्वम् / 'जावइया नयवाया तावइया चेव हुन्ति परसमया / जावइया परसमया तावइया चेव भिच्छत्तं" // न्यायादपरिमित भेदं वेति / / 75 / / वारसविहा अविरई मणइंदियअनियमो छकायवहो / सोलम नव य कमाया पणुवीसं पन्नरस जोगा // 76 //