________________ // ॐ हीं श्रीं अई श्रीशंखेश्वरपार्श्वनाथायनमः / / न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः / / सकलागमरहस्यवेदिश्रीमदाचार्यविजयदानसूरीश्वरेभ्यो नमः // कर्मसाहित्यनिष्णातश्रीमदाचार्यविजयप्रेमसूरीश्वरेभ्यो नमः / / श्रीमज्जिनवल्लभगणिपुङ्गवप्रणीतः षडशीतिनामा चतुर्थः कर्मग्रन्थः / ( अपरनाम-आगमिकवस्तुविचारसारप्रकरणम् ) श्रीमद् यशोभद्रसूरीश्वरप्रणीतटीकया समलङ कृतः॥ श्री नमः सर्वज्ञाय आगमिकवस्तुगोचरविचारसारप्रकरणपदजातं किश्चित्किञ्चिद्विवृणोमि नतहिता भारती स्मृत्वा / / 1 / / कासौ श्रीजिनवल्लमस्य रचना सूक्ष्मार्थचर्चाऽर्चिता, क्वयं मे मतिरग्रिमा प्रणयिनी मुग्धत्वपृथ्वीभुजः / पङ्गोस्तुङ्गनगाधिरोहणसुहद्यत्नोऽयमार्यास्ततो, ऽसद्ध्यानव्यसनार्णवे निपततः स्वान्तस्य पोतोऽर्पितः // 2 // निच्छिन्नमोहपासं पमरियविमलोरुकेवलपयासं / पणयजणपूरियासं पयओ पणमित्त जिणपासं // 1 // (यशो०) "निच्छिन्नमोहपास"मित्यादि, विशेषणविभूषितात्मानं जिनपार्श्व प्रणम्य जीवमाग्गंणागुणस्थानादि वक्ष्य' इत्युत्तरगाथया संवन्धः / तत्र 'निच्छिन्ने"ति अविरतसम्यग्दृष्टयादीनामपि सूक्ष्मसंपरायान्तानां किंचित् किंचित् मोहछेदोऽस्तीति तद्व्यवछेदार्थ निशब्दोपादानं नितरामतिशयेन छिन्नः खंडितो मोह एव सर्वोपद्रवन्ध्यस्थानगमनविचारकत्वात्पाशोऽनेन स तथा, एवंरूपश्च क्षीणकषायवीतरागछद्मस्थावस्थावलम्ब्यपि भगवान् स्यादत आह-प्रसतो ऽसर्वगतात्मनि व्यवस्थित एव विस्तृतः प्रचुरभावमापत्रः समस्ततदावरणविरयाद्विमल: . सकललोकालोकव्यापकत्वादुरू-महान् केवलस्य केवलज्ञानस्य प्रकाशः प्रकाशनशक्ति * "सूक्ष्मार्थचर्चा-ऽनतिा"इति वा /