________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 295 स्वरादावुत्तरपदेऽनादेशः स्यात् / अनादिः अनंतः। आदेशबलादत्र नलोपद्वित्वादिकं न भवति // 129 / / __ अ० न विद्यते आदिरस्यासौ अनादिः / न विद्यते अंतोऽस्यासौ अनंतः / एवमजाता भावोऽनजं / न अश्चोऽनश्चः / एषु सर्वत्र अन् इत्यादेशबलात् 'नाम्नो नोऽनोह्र' (2 / 1 / 91) इति सूत्रेण नकारलोपो न भवति / 'ह्रस्वाङ् ङणनो द्वे' (1 / 3 / 21) रित्यनेन नकारद्विर्वचनं भवतीत्यर्थः, नास्ति पुण्यं पापं चेति मतिर्यस्याऽसौ नास्तिकः / अस्ति पुण्यं पापं चेति मतिरस्येति आस्तिकः / निपातनात् सिद्धं यदा तु न आस्तिको नास्तिक इति वाक्यं तदा नखादिगणपाठफलमिति // 129 / / ... कोः कत्तत्पुरुषे // 3 / 2 / 130 // तत्पुरुषे स्वरादावुत्तरपदे परे कुशब्दस्य कद् इत्यादेशः स्यात् / कदश्वः / कदुष्ट्रः / तत्पुरुष इति किम् ? कूष्ट्रो देशः / स्वर इति किम् ? कुब्राह्मणः // 130 // ___ अ० कुत्सितोऽश्वः कदश्वः / कुत्सित उष्ट्रः कदुष्ट्रः / एवं कुत्सितमनं कदन्नम्, कदशनं इति / कुत्सिता उष्ट्रा यस्मिन् देशे स कूष्ट्रो देशः // 130 // . रथवदे // 3 / 2 / 131 // रथवदयोरुत्तरपदयोः कोः कद् स्यात् / कद्रथः / कद्वदः // 131 // . अ० कुत्सितो रथः केंद्रथः / कुत्सितो वदः कद्वदः कुत्सितो वदोऽस्य वा कद्वदः / तत्पुरुषे वेच्छन्त्येके / अन्यत्र कुरथो राजा / कुवदो मूर्खः / / 131 / / तृणे जातौ // 3 / 2 / 132 // जातावर्थे तृणे उत्तरपदे कोः कद् स्यात् / कत्तृणा नाम रोहिषाख्या तृणजातिः // 132 // अ० कुत्सितं तृणमस्याः सा कत्तृणा // 132 / / कत् त्रि // 3 / 2 / 133 // कुकिमो वा त्रिशब्दोत्तरपदे कद् स्यात् / कत्रयः / कत्रिः // 133 // अ० त्रावित्येव सिद्धे कत्त्रीति किमोपि परिग्रहार्थं, कुत्सितात्रयः के वा त्रयः / कत्त्रयः / कुत्सितात्रयोऽस्य के वा त्रयोस्य कत्रिः / किमो नेच्छन्त्यन्ये किंत्रयः / / 133 / / . काऽक्षपथोः // 3 / 2 / 134 // अक्षपथिनुत्तरपदयोः कोः का स्यात् / अक्षशब्दस्यादन्तस्य कृतसमासान्तस्य चाऽविशेषेण ग्रहणम् / काक्षम्, काक्षो रथः / काक्षः / कापथम् / कापथो देशः। साकोपि, ककु कुत्सितोक्षः काक्षः / एवं कापथः। अव्युत्पने पथशब्दे न भवति कुपथं वनम् // 134 // __ अ० 'सक्थ्यक्ष्णः स्वाङ्गे' (7 / 3 / 126) इति ट समासान्तः / कुत्सितोऽक्षः पाशादि काक्षः / कुत्सितमक्षमिन्द्रियं काक्षम्, कुत्सितोऽक्षोऽस्य काक्षो रथः / कुत्सितमक्षमक्षि वा काक्षः / कुत्सित पन्थाः कापथं पथःसंख्येति नपुंसकत्वं / कुत्सितः पन्था अस्मिन् देशे कापथो देशः / साकोपि भवति, ककु कुत्सितोऽक्षः काक्षः, एवं कापथः, अत्र पुंस्त्वममरो गौडश्च यदाह 'व्याध्वौ विपथकापथौ' / स्वमते तु नपुंसकत्वमेव, पथिशब्दनिर्देशात्, तत्पर्यायेऽव्युत्पन्ने पथशब्दे न. भवति कुत्सितः पथः कुपथः // 134 / /