________________ 287 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 'प्राण्यंगरथखलतिलयववृषब्रह्ममाषाद्यः' / (7 / 1 / 37) इति सूत्रेण यप्रत्ययः, अन्यत्रेति कोऽर्थः ? यत्र लासलेखअण्या न भवन्ति / अन्यशब्देषु उत्तरपदेषु उभयं, कोऽर्थः ? हृद्शब्दस्य हृदयशब्दस्य च प्रयोगः कार्यः, यथा सौहार्थं, सौहृदय्यं, हच्छोकः, हृदयशोकः, हृद्रोगः, हृदयरोगः, हृच्छंकुः, हृदयशंकुः, हृच्छूलं, हृदयशूलं, हृच्छल्यंः, हृदयशल्यं, हृद्दाहः, हृदयदाहः, हृदुःखं, हृदयदुःखं, हृत्कमलं, हृदयकमलं, हृत्पुंडरीकं इत्याद्यन्येऽपि / सुहृदो भावः कर्म वा सौहार्थं / सुहृदयस्य भावः कर्म वा पतिराजांतगुणांगराजादिभ्यः कर्मणि च' (7 / 1 / 60) (ट्यण्) सौहार्थं / अत्र 'हृद्भगसिंधोः' (7 / 4 / 25) उभयपदवृद्धिः // 94 // पदः पादस्याज्यातिगोपहते // 3 / 2 / 95 // आज्यादिषूत्तरपदेषु पादस्य पदः स्यात् / पदाजिः, पदातिः, पदगः, पदोपहतः, पादसमानार्थः पदशब्दोऽस्ति / आज्यादिषु पादशब्दप्रयोगनिवृत्यर्थमिदम् ॥छ।९५॥ अ० पादशब्दस्य पद इत्यादेशः, 'अज क्षेपणे' च / 'अत सातत्यगमने' / अज् / अत् / पादाभ्यामजति पादाभ्यामतति ‘पादाच्चात्यजिभ्यां' (620) इत्यौणादिक इण, पादाभ्यां गच्छति 'नाम्नो गमः खड्डौ च विहायसस्तु विहः' (5 / 1 / 131) कथं दिग्धश्चासौ पादश्च तेनोपहतो 'दिग्धपादोपहतः / अत्र कथं न पदादेशः ? उच्यते, उत्तरपदसंनिधापितेन पूर्वपदेन पादशब्दो विशेष्यते न चात्र पादशब्दः पूर्वपदं अपि तु दिग्धपादः (तेनात्र पदा) देशो न भवतीत्यर्थः // 9 // हिमहतिकाषिये पद् // 3 / 2 / 96 // हिमादिषुत्तरपदेषु ये च प्रत्यये परे पादस्य पद् स्यात् / पद्धिमं, पद्धतिः पत्काषि, ये पद्याः शर्कराः। पद्याः पाशवः / कथं पादार्थमुदकं पायं ? 'पाचार्ये' (7 / 123). इति निपातनात् / पादाभ्यां चरति पदिक इति तु 'पदिक' (6 / 4 / 13) इति निपातनात् ॥छ॥९६॥ ___ अ० हिमहतिसूत्रे विशेषोऽयं / केचित् गोपहतयोः परयोः-पद् इत्यादेशमिच्छंति तन्मते पादाभ्यां गच्छति पद्गः, पादाभ्यां कषतीत्येवं शीलः 'अजातेः शीले' (5 / 1 / 154) इति णिन् / पुनः पुनः पादौ कषतीति 'व्रताभीक्ष्ण्ये' (5 / 1 / 157) णिन् / पादाभ्यां साधु कषतीति वा 'साधौ' (5 / 1 / 155) इति णिन् / पादौ विध्यंति पद्याः 'विध्यत्यनन्येन' (7 / 1 / 8) इति सूत्रेण यप्रत्ययः, पादयोर्भवाः पद्या 'दिगादिदेहांशाद्यः' (इति) यः, पादाभ्यां हितं पद्यं घृतं / 'प्राण्यङ्गरथखलतिले' 0 (7 / 1 / 37) हिमहति० सूत्रे विशेषोऽयं--केचित् गोपहतयोः परयोः पद इत्यादेशमिच्छन्ति तन्मते पादाभ्यां गच्छति (इति) पद्गः, पादाभ्यामुपहतः पदुपहत इति प्रयोगौ पादसम्बन्धिनि 'हिमहतीति' (3 / 2 / 96) सूत्रस्य वृत्तौ पादशब्दसम्बन्धिनि ये च प्रत्यये परे इति व्याख्येयम्, तेन द्विगुसमाससम्बन्धिनि यप्रत्यये परे न पदादेशः, यथा द्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यं, एवं त्रिपाद्यं 'पणपादमाषाद्यः' (6 / 4 / 148) इति सूत्रेण 'यप्रत्ययः पादयोर्हिमं, पादाभ्यां हतिः, पादाभ्यां कषतीत्येवंशीलः 'अजातेः शीले' (5 / 1 / 154) णिन् पादाभ्यां साधु कषतीति वा साधौ (5 / 1 / 155) इति णिन् / पादौ विध्यंति पद्याः 'विध्यत्यनन्येन' (7 / 1 / 8) 1. दिग्धपादोपहत इत्यत्र तु न पदादेशः, आज्यादिषूत्तरपदेषु परतः पूर्वपदभूतस्य पादशब्दस्य पदादेशविधानेनोत्तरपद भूतोपहतशब्दनिरूपितपूर्व पदत्वस्य दिग्धपादपद एव सत्त्वात् पादशब्देऽभावादिति भावः / 2. कथं हस्तिपादस्यापत्यं हास्तिपाद इत्यत्र अपत्याणि पद्भावः ? इति न च वाच्यं, 'कौपिञ्जलहास्तिपदादण' इति निर्देशात् / 3. यद्वा आज्यादिषु करणभावः प्राण्यङ्गस्यैवेति पूर्वत्र पादशब्दः प्राण्यङ्गवचनः स एव चेहानुवर्तते इति परिमाणार्थस्य न भवति /