________________ 286 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते नत्वशीतौ बहुव्रीहिविषये च / द्वादश, द्वाविंशतिः, त्रयोदश, त्रयोविंशतिः, अष्टादश, अष्टाविंशतिः / प्राक्शतादिति किम् ? द्विशतं, त्रिशतं, अष्टशतं, द्विसहस्रं, अनशीतिबहुव्रीहाविति किम् ? द्वयशीतिः, द्वित्राः। त्रिचतुराः, द्विदशाः / प्राक्शतादित्यवधेः संख्यापरिग्रहादिह नादेशः द्वैमातुरः ॥छ॥१२॥ अ० द्विदशन् द्वाभ्यामधिका दश अथवा द्वौ च दश च, एवं द्वाविंशतिः, द्वात्रिंशत् / तथा त्रिभिरधिका दश त्रयश्च दश च वा त्रयोदश, एवं त्रयोविंशतिः, त्रयस्त्रिंशत्, अष्टभिरधिका दश अष्टौ च दश चेति वा अष्टादश, एवं अष्टाविंशतिः अष्टाविंशत् / द्वौ वा त्रयो वा द्वित्राः / द्विर्दश द्विदशाः / 'प्रमाणी संख्यात् डः' (7 / 3 / 128) इति डः समासान्तः / त्रयो वा चत्वारो वा इति त्रिचतुराः। 'नञ् सुव्युपत्रेश्चतुरः' (7 / 3 / 131) इति अप् समासांतः, द्वयोर्मात्रोरपत्यं द्वैमातुरः, तिसृणां मातॄणामपत्यं त्रैमातुरः अष्टानां मातृणामपत्यं आष्टमातुरः, 'संख्यासंभद्रान्मातुर्मातुश्च' (6 / 1 / 66) इत्यनेन अण् / मातृशब्दस्य मातुर् इत्यादेशः // 92 // चत्वारिंशदादौ वा // 3 / 2 / 93 // द्वित्र्यष्टानां प्राक् शताच्चत्वारिंशदादौ सङ्ख्यायामुत्तरपदे यथासङ्ख्यं द्वा त्रयस् अष्टा इति भवंति वा, अनशीतिबहुव्रीहौ / द्वाचत्वारिंशत् द्विचत्वारिंशत्, त्रयश्चत्वारिंशत् त्रिचत्वारिंशत्, अष्टाचत्वारिंशत् अष्टचत्वारिंशत्, एवं द्वापञ्चाशत् इत्यादि पूर्वेण नित्यं प्राप्ते विकल्पार्थमिदम् ॥छ।९३॥ अ० द्वाभ्यामधिका अथवा द्वौ च चत्वारिंशच्चेति वाक्यमेवमग्रेष्वपि, आदिशब्दात् द्वापञ्चाशत्, द्विपञ्चाशत्, त्रयःपश्चाशत्, त्रिपञ्चाशत्, अष्टापञ्चाशत्, अष्टपञ्चाशत् / द्वाषष्टिः द्विषष्टिः, त्रयोषष्टिः त्रिषष्टिः, अष्टाषष्टिः अष्टषष्टिः, द्वासप्ततिः द्विसप्ततिः, त्रयःसप्ततिः, त्रिसप्ततिः, अष्टासप्ततिः अष्टसप्ततिः, द्वानवतिः, द्विनवतिः, त्रयोनवतिः, त्रिनवतिः, अष्टानवतिः, अष्टनवतिः // 93 / / हृदयस्य हृल्लासलेखाण्ये // 3 / 2 / 94 // लासलेखयोरुत्तरपदयोरणि ये च प्रत्यये परे हृदयस्य हृत् आदेशः स्यात् / हल्लास् हृल्लेखः / अण् हाईम्, हृद्यः, हृद्यं / हृदयसमानार्थेन हृत्शन्देनैव सिद्धे हृदादेशविधानं लासादिषु हृदयप्रयोगनिवृत्त्यर्थम् / अन्यत्र तूभयं प्रयुज्यते सौहार्य सौहृदय्यं इत्यादि ॥छ।९४॥ - अ० हृदयं लिखतीति हल्लेखः / अत्र 'कर्मणोऽण्' (5 / 1 / 72) (इति) अण् लेखनं लेखः ‘भावाकोंः' (5 / 3 / 18) घञ् हृदयस्य लेखो हृदयलेख इति घनि हृत् न स्यात् / अण्' संनिधानाल्लेखशब्दोप्यणंतो ग्राह्यो न घनंतः / लासलेखअण्येषु परेषु हृदयशब्दस्य हृदादेश एव न हृदयप्रयोगः, हल्लास हल्लेख इति प्रयोगाः, न हृदयलास हृदयलेख इति भावः / हृदयस्येदं हाई अथवा हृदयस्य भाव कर्म वा हार्दै / पूर्ववाक्ये तस्येदं अण्, पाश्चात्यवाक्ये 'पुरुषहृदयादसमासे' (7 / 1170) इत्यनेन अण् / अथवा 'युवादेरण' (7 / 1 / 67) इति सूत्रेण अण् ततो हृद् आदेशः, एवं सौहार्द, दौहार्दै / शोभनं हृदयं यस्य, दुष्टं हृदयं यस्य, पश्चात् सुहृदयस्येदं / दुहृदयस्येदं, तस्येदं अण, हृद् आदेशः / 'हद्भगसिंधोः' (7 / 4 / 25) इति सूत्रेण उभयस्यापि वृद्धिः / हृदयस्य प्रियो बंधनो वा वशीकरणमंत्रो वा हृद्यः, 'हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्य' / (7 / 1 / 11) इति सूत्रेण यप्रत्ययः, ततो हृद् / हृदये भवं हृद्यं / 'दिगादिदेहांशाद् यः' (6 / 3 / 124) अथवा हृदयाय हितं हृद्यं / 1. अण् ग्रहणेनैवाणन्तलेखशब्दस्य लाभे पुनस्तद्ग्रहणमुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं न भवतीति नियमज्ञापनायेति विज्ञेयम् /