________________ 24 . कलिकालमतशी कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलङ्कृते 'भोगवद्' (3 / 2 / 65) इति सूत्रे निर्देशात् पूर्वपदस्य ह्रस्वत्वं, ततो भोगवती, प्रकृष्टा भोगवती भोगवतितरा। गौरी अस्या [अ] स्तीति गौरिमती, तदस्यास्ति० (7/2 / 1) मतुः ‘ड्यापो बहुलं नाम्नि' (2 / 4 / 99) इति बहुलवचनात् ह्रस्वः, गौरिमती प्रकृष्टा गौरिमतीतमा / भोगवतिब्रुवा / गौरिमतिहता इति प्रयोगावली विज्ञेया // 65 // - न वैकस्वराणां // 3 // 2 // 66 // बहुवचनात् परतः स्त्रीति निवृत्तं, सामान्येन विधिः / एकस्वरशब्दस्य ड्यन्तस्य तरादिषु ब्रुवादिषूत्तरपदेषु च स्त्र्येकार्थेषु ह्रस्वान्तो वा स्यात् / स्त्रितरा, स्त्रीतरा / ज्ञस्य भार्या ज्ञी-ज्ञितमा / ज्ञीतमा / जिब्रुवा, ज्ञीब्रुवा / स्त्रिहता, स्त्रीहता / एकस्वराणामिति किम् ? कुटीतरा, कुबलीरूपा / ड्य इत्येव ? श्रीतरा धीरूपा / एकार्थ इत्येव ? स्त्रिया हता स्त्रीहता // 66 // अ० ज्ञितमा, ज्ञीतमा इत्यत्र विकल्पेन ह्रस्वः, पश्चात् सञ्ज्ञा-विवक्षायां तद्धिताककोपान्त्येति निषेधबलात हस्वपक्षे पुंवत् तद् भवतीत्यर्थः, स्त्री चासौ हता च / नित्यदितामनेकस्वराणामपि एके ह्रस्वं इच्छन्ति, तन्मते आमलकितरा / बदरितमा / लक्ष्मिकल्पा / तन्त्रितरा इत्यादयो भवन्ति / इयमवचूरिः 'नवैकस्वराणाम्' (3 / 2 / 66) इति वृत्तिप्रान्तेऽवगन्तव्या // 66 // __ऊङः // 3 / 2 / 67 // ऊङन्तस्य तरादिषु ब्रुवाद्युत्तरपदेषु स्त्र्येकार्थेषु ह्रस्वो वा स्यात् / वामोरुतरा, वामोरूतरा / कमण्डलुकल्पा, कमंडलूकल्पा / कद्रुब्रुवा, कब्रुवा // 6 // अ० 'उतो प्राणिन०' (2 / 4 / 73) ऊङ्, पगुचेली, पशूचेली / भीरुहता, भीरूहता इत्याद्यपि // 67 / / महतः करघासविशिष्टे डाः // 3 / 2 / 68 // करादिषूत्तरपदेषु स्त्र्येकार्थेषु महच्छब्दस्य महतो डा इत्यंतादेशो वा भवति / वैयधिकरण्ये इयं विभाषा, सामानाधिकरण्ये तु परत्वादुत्तरेण नित्य एव विधिः / महतः करो महाकरः, महत्करः / कर एव कार इति महाकारः, महत्कारः / महाघासः, महद्घासः / महाविशिष्टः, महद्विशिष्टः // 68 // अ० सूत्रे डकारोऽन्त्यस्वरादिलोपार्थः, स च उत्तरसूत्रार्थः / / महतो घासः / महतो विशिष्टः // 68 / / स्त्रियाम् // 3 // 2 // 69 // स्त्रियां वर्तमानस्य महतः करायुत्तरपदेषु नित्यं डा अन्तादेशः स्यात् / महत्याः करः महाकरः / महाघासः / महाविशिष्टः // 69 // अ० नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायात् पूर्वेणैव सिद्धे नित्यार्थमिदं 'स्त्रियामिति सूत्रं // 69 // - जातीयैकार्थेऽच्वेः // 3 // 27 // महतोऽव्यन्तस्य जातीयप्रत्यये एकार्थे चोत्तरपदे डा अन्तः स्यात् / महाजातीयः महाजातीया एकार्थे, महांश्चासौ वीरश्च महावीरः / महामुनिः। महाभागः / महती चासो देवी च महादेवी एवं महाराज्ञी / महांश्वासौ करश्च महान् करोऽस्येति वा महाकरः / एवं महाघासः / महान्तमात्मानं मन्यते महामानी एवं महं१. द्वितीयाद्यन्ततत्पुरुषे इति भावः, प्रथमान्तपदसमासे कर्मधारयादौ तु नित्यंडा भवति / 2. महत इति किम् ?. राजकरः, करादिष्विति किम् ? महत् पुत्रः /