________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 279 ऋदुदित्तरतमरूपकल्पब्रुवचेलगोत्रमतहते वा ह्रस्वश्च // 3 / 2 / 63 // ऋदित्शब्द उदिच्छब्दश्च परतः स्त्री तरादिषु प्रत्ययेषु ब्रुवादिषु च स्त्र्येकार्थेषुत्तरपदेषु ह्रस्वान्तः पुंवच्च वा भवति / पचन्तितरा, पचत्तरा, पचन्तीतरा / श्रेयसितरा, श्रेयस्तरा, श्रेयसीतरा / विदुषितरा, विद्वत्तरा, विदुषीतरा / एवं तमेपि / रूप- पचन्तिरूपा, पचद्रूपा, पचन्तीरूपा / कल्प- पचतिकल्पादि / पचन्तिब्रुवा, पचब्रुवा, पचन्तीब्रुवा / चेलट्-पचन्तिचेली, पचच्चेली, पचन्तीचेली। गोत्र-श्रेयसिगोत्रा, श्रेयोगोत्रा, श्रेयसीगोत्रा / विदुषिगोत्रा, विद्वद्गोत्रा, विदुषीगोत्र / मत- श्रेयसिमता, श्रेयोमता, श्रेयसीमता / हतापचन्तिहता इत्यादि / एवं सुदतितरेत्यादि, ब्रुवादयः कुत्साशब्दाः // 63 // अ० पचत् इति शब्दः / अधातूदृदितः ङीः (2 / 4 / 2) तदनन्तरं / 'श्यशवः' (2 / 1 / 116) इति सूत्रेण इति अत् स्थाने अन्त / इयं पचति 2 इयमनयोर्मध्ये प्रकृष्टं पचति पचन्तितरां / इयं श्रेयसी 2 इयमित्यादि / एवं इयं विदुषी 2 इयमनयोः प्रकृष्टा विदुषी / द्वयोर्विभज्ये च तरप् / यत्र तमप् तत्र बहुत्वे वाक्यं इयं पचति 2 इयमासां मध्ये प्रकृष्टं पचन्ती पचन्तितमा / एवं श्रेयसीतमा / विदुषीतमां 1 'प्रकृष्टे तमप' (7 / 3 / 5) इति सूत्रेण तमप्। रूपत्रयं त्रयं तमेपि ज्ञातव्यं / प्रशस्तं पञ्चमी पचन्तिरूपा 'त्यादेश्च प्रशस्ते रूपप् (7 / 3 / 10) ईषदपरिसमाप्ता पचन्ती पचन्तिकल्पा / 'अतमबादेरीषदसमाप्ते कल्पप् देश्यप्' / अत्रापि रूपत्रयं सज्ञेयम् / ब्रुवादिशब्दैः कुत्सनार्थे H सह निन्द्यं कुत्सनैरपापाद्यैरिति, समासः, पचन्तीचासौ ब्रुवाच / ब्रुवशब्दो निन्द्यवाची, चेलशब्दो निन्द्यवाची टकारो ङ्यर्थः पचन्ती चासौ चेली च, श्रेयसी चासौ मता च / विदुषिगोत्रा पचन्ती चासौ हताच, सुदतितरेत्यादि / 'वयसि दन्तस्य [दतृ] दन्' (7 / 3 / 151) इति सूत्रेण दन्तस्य दत् / एकार्थेषु इति किं ? पचन्त्या हता इति वाक्ये पचन्ती हता इत्युदाहरणम् / एवं विदुष्या हता विदुषीहता / इति व्यावृत्तिः सूत्रप्रान्ते ज्ञेया // 63 / / ड्यः // 3 / 2 / 64 // ड्यन्तस्य परतः स्त्रीलिङ्गस्य तरादिप्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थेषु हस्वान्तादेशः स्यात् / गौरितरा / गौरितमा। नर्तकिरूपा / कुमारिकल्पा / ब्राह्मणिब्रुवा इत्यादि / परत्वाद् यथा प्राप्तं पुंवद्भावं बाधते / ङ्य इति किम् ? कारिकातरा / परतः स्त्रिया इत्येव ? बदरीतरा / एकार्थ इत्येव ? ब्राह्मण्या हता ब्राह्मणीहता // 64 // अ० नवैकस्वराणामित्युत्तरत्र वचनात् 'उच्च' (3 / 2 / 64) इति सूत्रं अनेकस्वरस्यैव शब्दस्य प्रवर्त्तते इति भावः। दत्तारूपा ग्रामणीकल्पा आमलकीकल्पा // 64 / / . भोगवद् गौरिमतोर्नाम्नि // 3 // 2 // 65 // भोगवत्गौरिमतशब्दयोङयन्तयोर्नाम्नि सञ्ज्ञायां तरादिषु चोत्तरपदेष्वेकार्थेषु ह्रस्वः स्यात् / भोगवतितरा / गौरिमतितमा इत्यादि / भोगवतिब्रुवा / गौरिमतिचेलीत्यादि / नाम्नीति किं ? भोगवतितरा / भोगवत्तरा / भोगवतीतरा // 65 // अ० भोगाः-सर्पकञ्चुकाः सन्त्यस्यां इति वाक्ये 'नद्यां मतुः' (6 / 2 / 72) इति सूत्रेण मत्प्रत्ययः / 'अधातूदृदितः ङीः' (2 / 4 / 1) भोगवती, अनजिरादि बहुस्वरेस्यादिना भोगस्य दीर्घान्तादेशः / भोगवतीनाम नदी अतएव 1. उदित्वात् 'ऋदुदित्तरेत्यादिनात्रहस्वत्वं ज्ञेयमिति /