________________ 20 कलिकालसर्वज्ञभीहेमचन्द्राचार्यविरचिते मध्यमवृत्यवरिभ्यामलते ईदेद्विवचनम् // 12 // 34 // ईत् ऊत् एत् इत्येवमन्तं द्विवचनान्तं स्वरेऽसन्धिः स्यात् / मुनी इह / साधू एतौ / माले इमे ['दो मःस्यादौ' (2 / 1 / 39) मकारः] / पचेते इति // 34 // अ० ईच्च ऊच्च एच्च ईदूदेत् / सिः / द्वि / 'वचंक् परिभाषणे' / द्वावर्थो वक्तीति द्विवचनम् / 'रम्यादिभ्यः कर्त्तरि' (5 / 3 / 126) अनेन अनट्प्रत्ययः / मुनि / साधु / प्रथमा औ / द्वितीया औ / 'इदुतोऽस्टेरीदूत्' (1 / 4 / 21) अनेन औता सह ईकारः ऊकारः मुनी साधू / माला औ / 'औता' (1 / 4 / 20) इति सूत्रेण औकारेण सह आबन्तस्य एकारः माले / पचेते पच् / वर्तमाना आत्मनेपद आते / 'कर्त्तर्य०' (3 / 4 / 71) शव् / 'आतामाते आथामाथे आदिः' (4 / 2 / 121) इत्यनेन आते आकारस्य इकारः / 'अवर्णस्येवर्णादि० ' (1 / 2 / 6) एत् // 34 / / अदोमुमी // 1 // 2 // 35 // अदस्सम्बन्धिनौ मुमी इत्येतौ स्वरेऽसन्धी स्याताम् / अमुमु ईचा / अमी अश्वाः // 35 // .. अ० अदसो मुमी अदोमुमी / एकपदम्, सिः / अमुमुईचा / अदस् / 'अञ्चू गतौ च' / अमुमश्चतीति विप् / 'सर्वादिविष्वग्देवाड्डद्रिः कयञ्चौ' (3 / 2 / 122) अनेनाञ्चेः पूर्व अदसः परो डद्रिः / डकारोऽन्त्यस्वरादिलोपार्थः 'डित्यन्त्यस्वरादेः' (2 / 1 / 114) 'अप्रयोगीत्' 'क्किप्' (5 / 1 / 148) लुग् / 'अञ्चोऽनर्चायाम्' (4 / 2 / 46) इति नकारस्य लोपः / तृतीयाटा / 'अच्च् प्राग्दीर्घश्च' (2 / 1 / 104) इत्यनेनाचः च् इत्यादेशः / अद्रि इकारस्य दीर्घः / ईः / अद्रेः इकारः पृथग् कार्यः / तदनन्तरं दीर्घः / 'वाद्रौ' (2 / 1 / 46) इत्यनेन दकारद्वयस्य मः / 'मादुवर्णोऽनु' (2 / 1 / 47) इत्यनेन मात्परस्य वर्णमात्रस्य उत्वं क्रियते अमुमुईचा / / अमी / अदस् / जस् / ‘आढेरः' (2 / 1 / 41) अः / 'मोऽवर्णस्य' (2 / 1 / 45) इति मः / 'जस इ:' (1 / 4 / 9) 'अवर्णस्ये०' (1 / 2 / 6) इति ए / 'बहुष्वेरीः' (2 / 1 / 49) इति एकारस्य ईत्वम् अमी // 35 // चादिः स्वरोऽनाङ् // 12 // 36 // आवर्जश्चादिः स्वरः स्वरे परेऽसन्धिः स्यात् / [सम्बोधने] अ, अपेहि / अनाङिति किम् ? आ इहि एहि // 36 // अ० ओदन्तेत्यत्र उत्तरसूत्रेऽन्तग्रहणात् चादिः स्वरेति सूत्रे चादिः केवल एव स्वरो गृह्यते / यथा अ अपेहि / इ इन्द्रं पश्य / ई ईदृशः संसारः / उ उत्तिष्ठ / ऊ ऊपरे बीजं वपसि / ए इतो भव / ओ श्रावय / आ एवं किल मन्यसे / आ एवं नु तत् इत्यादि / इ उ ए ओ एते वर्णा अहोऽर्थे, ई इति खेदे, ऊ इति अक्षमायाम् / चादिरिति किम् ? अ विष्णो श्रृणु / केवलचादिग्रहणादिह न भवति-चेति इतीह नन्विति वेति / तथा 'ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः / एतमातं ङितं विन्द्यात् वाक्यस्मरणयोरङित्' // 1 // मर्यादायुक्तोऽभिविधिर्मर्यादाभिविधिः तस्मिन् आतं आकारम् / ङितं डकारानुबन्धिनं विन्द्यात् जानीयात् / आ ईषदुष्णम् ओष्णम् अत्रेषदर्थे आ / आ इहि एहि अत्र आ क्रियायोगे / आ आर्येभ्य आर्येभ्यो यशो गतं गौतमस्य अत्राभिविधौ आ वर्त्तते / वाक्यविपरीतकरणे स्मरणे च य आ स अङित्, तत्राऽसन्धिः / यथा आ एवं किल मन्यसे / अस्यार्थः-पूर्वमन्यत्प्रतिज्ञातमिदानीमन्यदेवेति विपरीतवाक्यार्थे / आ एवं नु तत् / अस्यार्थोऽयम्-पूर्वं दृष्टं किमिदानी विस्मृतम् / आ स्मृतं स्मृतमेवम् इति स्मरणम् / नु वितर्के // 36 //