________________ 1 अङ्कः कर्णसुन्दरी। मूत्रधारः-नन्वस्मिन्नणहिल्लपाटणकमुकुटमणौ श्रीशान्त्युत्सवदेवगृहे भगवतो नाभेयस्य महामात्यसंपत्करप्रवर्तिते यात्रामहोत्सवे समुत्सुकः सामन्तजनः प्रत्यग्रप्रयोगदर्शनाय / (नेपथ्ये गीयते / ) णवमाहवीऍ दाविय सरसविलासाइँ परवसाइन्तो / मन्दीकअकुन्दलआचुम्बणतहो भमइ भमरो // 9 // (क) सूत्रधारः- (सहर्षम् / ) कथमुपक्षिप्तैव नटै टिका कर्णसुन्दरी / अहो सुकृतानि सामाजिकजनस्य / हंहो भाग्यमहानिधिर्दयितया देवस्य दग्धुः पुरां ___ पात्रं पुत्र इव स्वयं विरचितः सारस्वतीनां गिराम् / साहित्योपनिषन्निषण्णहृदयः श्रीविह्नणोऽस्यां कविः किं चैतत्किल भीमदेवतनयः साक्षात्कथानायकः // 10 // स च कविरेवमुक्तवान् औचित्यावहमेतदत्र तु रसः काष्ठामनेनार्हति व्युत्पत्तरिदमास्पदं पदमिदं काव्यस्य जीवातवे / एवं यः कवितुः श्रमः सहृदयस्तं पुस्तकेभ्यः पठ न्सूक्तीरुत्पुलकः प्रमाप्ष्टि निविडैरानन्दबाप्पोद्गमैः // 11 // अपि च / न विश्वासस्थानं प्रियमभिदधानोऽपि पिशुनी विषं प्राणान्हत धुरि मधुरमेव प्रभवति / परं शक्तः कर्तु किमु मम वराकः कतिपये यदद्यापि ज्ञप्तौ सुकविवचसां केऽपि सुजनाः // 12 // (कर्ण दत्त्वा / ) किमात्थ / कोऽत्र कथासंबन्ध इति / श्रूयताम् / विद्याधरेन्द्रतनयां नयनाभिरामां ___ लावण्यविभ्रमगुणां परिणीय देवः / (क) नवमाधव्या दृष्ट्वा सरसविलासान्परवशायितः / मन्दीकृतकुन्दलताचुम्बनतृष्णो भ्रमति भ्रमरः //