________________ काव्यमाला। . ... सखी--णं तस्सि पि संणदो मअरद्धओ त्ति कि त्ति उत्तमीअदि। (क) नायिका-सहि, अलं आसासणसीलदाए / (ख) / सखी-णं जो सो तस्स महाभाअस्स कदे पच्छावइदुमाढत्तो सिलोओ ण किं विरइअदि / (ग) नायिका--तुमं जेव्व सक्का सिलोअजुअलं करेसु / मह मम्महरससंकप्पविकप्पेहिं अन्तरिजदि पणिधाणदिछी / (घ) सखी-(नातिचिरात्स्थित्वा / ) सहि, अवधारेसु / (संस्कृतमाश्रित्य ) (क) नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे खिन्ना कोकिलकूजितादपि गिरं नोन्मुद्रयत्यात्मनः / चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे मुग्धाक्षी सुभग त्वयि प्रतिपदं प्रेमाधिकं पुष्यति // 29 // अपि च / प्रोतेति प्रतिबिम्बितेति घटितेत्यास्थानशालामणि स्तम्भन्यस्तभरामपि प्रियसखीवर्गो न जानाति ताम् / अङ्गेनोत्पुलकेन किं तु सुचिरं गीतं कुरङ्गीव सा तन्वङ्गी तब शृण्वती नयनरम्भोभिरुन्नीयते // 30 // ध्याने झटिति यथा परिस्फुरति मे कात्यायन्यास्तथा नो जाने यदि जीवयिष्यत्युमा कन्या विपन्नेति माम् // (क) ननु तस्मिन्नपि संनद्धो मकरध्वज इति किमित्युत्ताम्यते / (ख) सखि, अलमाश्वासनशीलतया / (ग) ननु यः स तस्य महाभागस्य कृते प्रस्तावयितुमारब्धः श्लोको न किं विरच्यते / (घ) त्वमेव शक्ता श्लोकयुगलं कुरुष्व / मम मन्मथरससंकल्पविकल्पैरन्तर्यते प्रणिधानदृष्टिः / (ङ) सखि, अवधारय /