________________ जीवानन्दनम् / 107 (नेपथ्ये / ) जीवे शिवप्रापितयोगसिद्धौ कालो जनान्ध्येन समं तमोवत् / पापो विषूच्या सह राजयक्ष्मा गदैरसाध्यैः सह नाशमेति // 29 // ईशानस्य निदेशात्प्राप्ता साप्यत्र शांकरी भक्तिः / चत्वारोऽपि पुमर्थाः पुंभिर्यस्याः प्रसादतो लभ्याः // 30 // मत्री-(आकर्ण्य / ) प्रियं नः प्रियम् / भगवान्काल एष एवं नः प्रियमाचष्टे / राजा-(सहर्षोल्लासम् / ) . . मूर्धन्यमण्डलनिकेतसुधांशुबिम्ब- .. ___निःष्यन्दिशीतलसुधातिनिर्वृताङ्गः। मेघावृतिव्यपगमे गगनं यथाच्छं चैतन्यमावरणवर्जितमस्मि तद्वत् // 31 // मत्री-एवमेवायं जीवो राजा भगवतोः प्रसादान्नीरोगो नित्यमुक्तो . निराबाधो बहुकालं जीयादिति प्रार्थये / भगवान्–तथैवास्तु / देवी-तह होदु / (क) राजा-(सहर्षविस्मयं मन्त्रिणं प्रति / ) मन्त्रिञ्जन्मैव दोषः प्रथममथ तदप्याधिभिर्व्याधिभिश्चे___ ज्जुष्टं कष्टं बतातः किमधिकमपि तु त्वन्मतेर्वैभवेन / देव्या भक्त्याः प्रसादात्परमशिवमहं वीक्ष्य कृच्छ्राणि तीर्णः सर्वाणि द्राक्तदत्यद्भुतमिह शुभदं संविधानं तवेदम् // 32 // मत्री-राजन्, बहुजन्मार्जितैः पुण्यैस्तावकैरेष तोषितः / सर्वाभीष्टं ददातीशः संविधानं किमत्र मे.॥ 33 // भगवान्-वत्स, किमतः परमन्यत्तव प्रियं कुर्मः। ' (क) तथा भवतु।