SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 7 अङ्कः] . जीवानन्दनम् / पश्चाद्भागे तस्याः , अरुचिप्लीहवमिज्वरकासार्शःश्वासशूलानाम् / सूक्ष्मैलादिमचूर्ण निरवर्णयमाशु युधि निहन्तारम् // 5 // तदनु जलजाक्ष इव दनुजलोकस्य सिद्धवसन्तः शुक्रदोषस्य गोक्षुरकादिचूर्णमिश्रितपयःपानविधिः पुंस्त्वदोषस्य त्रिविक्रमरसो मूत्रकृच्छ्राश्मर्योविष्यन्दनतैलयोगो भगंदरस्य लघुलकेश्वरः कुष्ठस्य नित्योदितरसो मूलानां विद्याधररसो गुल्मानां त्रिनेत्ररसः शूलानां महावहिरस उदररोगाणां गिरिकादिविधिर्गुञ्जातैललेपश्च शिरोरोगस्य चन्द्रोदयवर्तिश्च चक्षुरोगस्य सौवीरादिपक्वतैलनिषेकः कर्णरोगाणां सिद्धार्थत्रिफलाद्यौषधयोगविशेषपानविधिः कृत्योन्मादविषज्वरसर्वग्रहाणां मधुसपिर्युतचूर्णविशेषलेहनविधिः पाण्डुहृद्रोगभगंदरशोफकुष्ठोदरार्शसां मेहकुञ्जरकेसरीप्रमेहाणां च विजयमहोत्सवेन समुत्सारितसर्वरोगखेदाः समरजनैरप्यस्तूयन्त / ततः किमप्यवशिष्यते कार्यमस्माकम् / मन्त्री-स्वामिन् , श्रूयताम् / जन्यार्णवोऽरिजनितः सुमहानिदानी तीर्णोऽप्यतीर्ण इति निश्चिनुते मनो मे / यन्मत्सरेण रणभुव्युपदिष्टकार्यः कर्णे स तत्परमितो विदधीत यक्ष्मा // 6 // राजा-विज्ञानसचिव यथार्थनामधेय, मत्सरेण यक्ष्मणः कर्णे किमुक्त भवेत् / यक्ष्मा च तदाकर्ण्य किं विदध्यात् / तद्विधानेन चास्माकमुत्तिष्ठेत कीदृशमत्याहितम् / ___ मत्री-(क्षणं विचिन्त्य / ) किमन्यद्रवीमि / केचिदसाध्यरोगा यक्ष्माणमुपासते तैरस्मान्बाधितुं यक्ष्माणं प्रति मत्सरेण संकेतितमिति शङ्के / राजा-(सवितर्कम् / ) एवमेवास्मासु यक्ष्मा यदि वक्र विधिमुपक्रस्यते तत्र कमुपायं पश्यति भवान् / मत्री-'भक्ताय भवते कदापि मया दर्शयिष्यते साम्बः' इति भगवत्या तुभ्यं जातुचिदावेदितं भक्त्या इति कदाचित्कथान्तरे देवेनैव मां
SR No.004400
Book TitleKavyamala
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1988
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy